________________
जम्बूस्वामिचरिते
कियत्कालं कुमारेण योद्धारो बलशालिनः। आतिथ्यं यमगेहस्य नीता दोर्दडविक्रमैः ॥ २०४ ॥ पौरुषं चेकिमत्रास्त्रैराहोखिद्भारकारकैः। अथ चेन्न किमप्यस्वैर्मृतस्याभरणैरिव ॥ २०५ ॥ अथ व्योमगतित्विा द्वौ मिथो योदुमुद्यतो। कुमारस्यार्पयामास कृपाणं निशितं स्वतः ॥२०६ ॥ अथावोचत्कुमारं स नान्नाकाशगतिस्तदा । अधिरुह्य विमानं मे घातयारिकुलं महत् ।। २०७॥ श्रुतं तेन कुमारेण वाचा शस्त्रेण खंडितम् । न स्थितं श्रुतिरंध्रस्य वाक्यं चापि खगोदितम् ॥ २०८ ।। मुहृदत्र स्थितेनापि किं किल प्राणरक्षया । भटानामाहवे नूनमस्ति चेत्तृणवद्वपुः॥२०९ ॥ उक्तं हि"ब्रह्मचारी(?) तृणं नारी शूरस्य मरणं तृणम् । दातुश्चापि तृणं लक्ष्मी निस्पृहस्य तृणं जगत् " ॥ २१० ॥ दिदीपेऽतितरां तस्य हस्ते खड्गलता तदा। दारितारिपलेर्लिप्ता यमजिहेव जित्वरी ॥ २११ ॥ यत्र कुर्यात्महारं स खड्गपाणिः कुमारकः । तत्रारिमस्तकस्तोमो न्यपतद्भुवि वेगतः ॥ २१२ ॥ असिकुंतशराघातं कुर्वन्तोऽनुकुमारकम् । सर्वे निरर्थका जाता रत्नचूलस्य सैनिकाः ।। २१३ ॥ १ युद्धे ।