________________
जम्बूस्वामिविजयवर्णनम्
१३५
वयं विद्याधरा दूत श्रेणिको भूमिगोचरः। आवयोर्बलसामर्थ्य तुल्यता न कदाचन ॥१९३॥ आलकोलाहलेनालं तवं वाचंयमी भव । मया सार्ध युधित्सुर्यः स सर्वोऽप्यायातु वेगतः ॥ १९४ ॥ इत्युक्त्वा रत्नचूलः स स्थितो निभृतमानसः। समुद्र इव गंभीरो निस्तरंगोऽप्यनाकुलः ॥ १९५ ॥ अथ निर्घोषवद्वाक्यमूचे जम्बृकुमारकः । वज्रसंहननोपेतश्चंडो दोदेडविक्रमः॥ १९६ ॥ रत्नचूल खगाधीश यत्त्वयोक्तं समत्सरात् । . दोभावमहं मन्ये तत्सर्व हेतुबाधितम् ॥ १९७ ॥ यद्दशास्योऽपि विद्याभृद्धतो भूगोचरेण सः। राघवेण बलादेव युद्धता सह सैन्यकैः ।। १९८॥ वायसस्यापि विद्येत वियद्गामित्वमंजसा । सोऽपि जरितो बाणेदृष्टो भूमौ पतनिह ।। १९९ ॥ आकयेदं वचस्तस्य जातकोपेन तेन वै। प्रेरितास्तद्विघातार्थमुत्खातासिलता भटाः ॥ २०॥ ततस्तैहतुमारब्धो जम्बूस्वामी बलान्वितः । मूढेरज्ञाततद्वीजैः शस्त्रैः कुंतादिभिः शितैः ।। २०१॥ यावद्धंतुं कृतोद्योगा भटाश्चाष्टसहस्रकाः। दोभ्या॑मूर्द्ध कुमारेण नीतास्ते यममंदिरम् ।। २०२॥ ततःप्रभृति युद्धस्य प्रारंभः स्यान्महत्तरः। एकतोऽयं कुमारः स्यात्परतो भटकोटयः॥ २०३ ॥