________________
१३४
जम्बूस्वामिचरिते
यथा दर्पलवावेशाच्छ्रयंते रावणादयः ।
भूत्वा चात्रायशः पात्रो मृत्वा वा दुर्गतिं ययुः ॥ १८२ ॥ इयं कन्या ददावादौ श्रेणिकाय महीभृते ।
भवतेऽय कथं दातुं सोऽचिता दुर्यशोभयात् ॥ १८३ ॥ न वायं क्षात्रधर्मोऽस्ति संगराद्यत्पलायनम् । जीवनस्य कृते धीमान् कः पिवेदुर्यशोविषम् ॥ १८४ ॥ तत्प्रसीद खगाधीश ममादं मा विधेहि भो । गर्हितं तदिदं वाक्यं वक्तव्यं न त्वया कचित् ॥। १८५ ।। इति सूक्तिवचः पुष्पैर्गुफितां चातिशीतलाम् । मालामुष्णतरों मेने विरहीव खगस्तदा ।। १८६ ॥ ततस्ताम्रेक्षणः क्षोभात्किचित्प्रस्फुरिताधरः । ज्वलत्क्रोधानलज्वालां खगो वाचमुदीरयत् ॥ १८७ ।। दूतमन्योऽसि रे बाल यस्त्वमभ्यागतो गृहे । अवध्योऽसि ततो नान्या गतिस्त्वादृक शठस्य वै ।। १८८ ।। प्रस्तावेऽनुचितं वाक्यं विरुद्धं वैरवर्धनम् । वदन्न लज्जसे दूत स्वामिकार्यविनाशकृत् ॥ १८९ ॥ वाच्यावाच्यं न वेत्सि त्वं न वेत्सि च बलाबलम् । केवलं वावदूकोऽसि धाष्टर्ये (वै.) नाटयभिव ॥ १९० ॥ भानुमुद्वासितुं नालं यथा धृष्टोऽपि कौशिकः । वाचालत्वं तथा दूत नालं वक्तुमिदं वचः ॥ १९१ ॥ जीरकः किमु हेमाद्रिं भेत्तुमुत्सहते शठः । मृगांकः श्रेणिको नालं मामाराधयितुं युधि । १९२ ॥
१ दूतसदृशः ।