________________
१३२
जम्बूस्वामिचरिते
अहं दूतो मृगांकन पाठयित्वाथ प्रेषितः। तत्सर्व वक्तुमिच्छामि तत्त्वं साम्यकरं वचः॥१६३ ।। श्रुत्वा दंडधरो द्वाःस्थस्तस्यास्थाने गतो जवात् । प्रभुं नत्वोत्तमांगेन प्रावोचत्स विचक्षणः ॥ १६४ ॥ देव कश्चिन्नरो वाग्मी त्ववारि स्थितवानिह । वक्तुमिच्छति साम्नैव युष्मत्संदर्शनोत्सुकः ॥ १६५ ।। श्रुत्वा रत्नशिखश्चापि तद्वचः श्रुतिपेशलं । मंच प्रवेशय खे (१) नमित्यूचे मत्सरी खगः।। १६६ ।। आज्ञामादाय द्वाःस्थेन तत्समीपे प्रवेशितः। जंबूस्वामिकुमाराख्यो ज्वलत्कांत्या वपुच्छविः ॥ १६७ ॥ प्रविष्टः स दिदीपे वा तिग्मांशुरिव भूतले । सर्व तेजः खगेशानां तिरस्कुर्वन् स्वकांतिभिः॥१६८॥ दृष्ट्वा तं रत्नचूलोऽथ क्षणं विस्मयमाप सः। कथं संभावि दूतत्वमस्य कांतिमतः स्वतः॥ १६९ ॥ यत्किंचिदुचितं चात्र नमस्कारक्रियादिकम् । न कृतं चाटु वाक्यं वा स्थीयते तेन स्तंभवत् ।। १७० ॥ नूनं कश्चिदपूर्वोऽयं देवो वा मानवोऽथवा । परीक्षां कर्तुमायातो मदलस्यापि गौरवात् ।। १७१ ॥ चिंतयन्निति पप्रच्छ रत्नचूलः कुमारकम् । आगतस्त्वं कुतो देशाकिमर्थ मम सन्निधौ ।। १७२ ॥ श्रुत्वाऽवोचत्कुमारश्च रत्नचूलं वगं प्रति । नीतिमार्ग समाश्रित्य त्वां विबोधयितुं जवात् ॥१७३॥ १ शीघ्र।