________________
जम्बूस्वामिविजयवर्णनम्
१३१
खगादेतद्वचः श्रुत्वा कुमारो ज्वलितोऽभवत् । यथा प्रज्वालितं तेलं जज्वाल जलयोगतः ॥ १५२ ॥ रक्ष रक्ष विमानं भो तावद्व्योमगते क्षणात् । यावता रत्नचूलस्य द्रक्ष्यामि बलमुद्धतम् ॥ १५३ ॥ ततो विमानमुत्सृज्य शत्रुसेनामवीविशत् । पश्यन्नितस्ततः सैन्यं कौतुकेन कुतूहली ।। १५४ ॥ दर्श दर्श कुमारं तं सुंदरं मारसंनिभम् । जजल्पुश्चकितं किंचिन् मिथस्तत्सैनिका भटाः॥ १५५ ।। अहो देवाधिनाथोऽयमायातो लीलया स्वतः । दानवोऽप्यहिनाथो वा कामदेवोऽथवागतः ॥१५६॥ द्रष्टुं वा सैन्यमस्माकमाजगाम शचीपतिः । अथ कश्चिन्महाभागो लक्ष्मीवान् किं वणिक्पतिः॥१५७॥ सेवितुं रत्नचूलस्य पदद्वंद्वं खगोऽथवा । साध्वसात्परचक्रस्य सत्सहायधिया किमु ॥१५८॥ अथ कश्चिन्महीपालो दंडं दातुमिवागतः ।, जीवनस्य कृते व्याजादाधातुं स्नेहमुत्तमम् ॥ १५९ ॥ अथ कश्चिच्छलान्वेषी धूर्ती वेषधरो नरः। वावदूकश्च वाचालः पाटवाञ्चित्तरंजकः ॥ १६०॥ एवं तत्सैन्यलोकेषु नानावाक्यं वदत्स्वपि । जम्बूस्वामिकुमारोऽसौ गतस्तद्वारितः क्षणात् ॥ १६१ ॥ अथोवाचत्स निर्भीको रे रे द्वाःपालकाहय । संदिष्टं मम नीत्वाशु खगस्याग्रे निवेदय ॥ १६२॥