________________
१३०
जम्बूस्वामिचरिते
इति मत्वा वनस्येव प्राणाः प्रचलिता भृशम् । प्रत्यासत्तिं चिरादीयुः सैन्यक्षोभे प्रसेमुखि ॥ १४१॥ ततोऽपि दूरमुल्लंघ्य सोऽध्वगं पृतनावृतः। रेवासरित्तटे धीरो विश्राममकरोत्कृती ॥ १४२ ॥ ततस्तां च समुत्तीर्य प्रतस्थे केरलां प्रति। विशश्राम कियत्कालं नाम्ना कुरलभूधरे ॥१४३ ॥ पूजयामास भूमीशस्तत्र विंबं जिनेशिनः।। मुनीनपि महाभक्त्या ततः प्रस्थातुमुद्यतः ॥ १४४ ॥ कियद्रे ततो गत्वाऽतिष्ठच्छ्रीमगधाधिपः । अध्वश्रमापरोधाय सेनासामंतसंयुतः॥ १४५॥ अथ तावद्भुतं प्राप केरलां नगरी प्रति । जम्बूस्वामिकुमारोऽसौ नीतो विद्याधरेण यः॥१४६॥ किमिदं भो खगाधीश महाकोलाहलाकुलम् । साक्षात्कारी त्वमेवासि ब्रूहि नः संशयच्छिदे ॥ १४७॥ ततोऽवादीनभोगामी कुमारं प्रति प्रश्रयात् । सेयं सेना स्थिता बाल रत्नचूलस्य तद्विषः॥ १४८॥ यो मयाऽभाणि विद्याभूत् पूज्ये सर्वारिनाशकृत् ।। कन्यायाच्आमहामानभंगंमन्योऽस्ति रोषवान् ॥ १४९ ॥ उद्वासितस्तु येनायं देशः सर्वोऽपि कोपतः । मृगांको यद्भयाद्भीतो दुर्गमाश्रित्य तिष्ठति ॥ १५० ॥ अजय्यो निर्जिताशेषशात्रवोऽयं खगेश्वरः। विद्याधराधिनाथैस्तैः संसेव्यचरणांबुजः ॥१५१ ॥
१ सेना।