________________
जम्बूस्वामिविजयवर्णनम्
१२३
भो खगेन्द्र विमानेऽस्मिन्नात्मीये मां निवेशय । इतो नयस्व तत्राशु यत्रास्ते रत्नचूलकः ॥ ६४॥ श्रत्वा चित्रास्पदं वाक्यमिदमाह खगाधिपः। गतेनापि त्वया तत्र कर्त्तव्यं किमथार्भक ॥६५॥ तावद्धत्ते स्वसद्मस्थश्चापल्यं मृगशावकः । यावच्चाभिमुखं गर्जन् क्रुद्धो नायाति केशरी ॥६६॥ तावद्वपुः परं सौम्यं लसन्सौदर्यराजितं । यावदंष्ट्राकरालोऽसौ कृतांतो नातुमिच्छति ॥ ६७॥ तावत्तणगणाः सर्वे सन्त्वरण्येषु शाहलाः। यावन्न स्याज्ज्वलज्ज्वालः प्रचंडो दावपावकः ॥ ६८॥ तावदाडंबरं धत्ते सर्वोऽप्यभ्रगणोऽम्बरे । यावच्चंडानिलः कोऽपि न वायादतिदुर्द्धरः ॥ ६९ ॥ तावदायुः स्वमारोग्यं यशः संपद्धनं जयः। यावल्लेशो न पापस्य नोदेत्यत्र गरीयसः ॥ ७० ॥ ताबद्ब्रह्मव्रतं साक्षान्निर्मलं जैनधर्मवत् । यावद्योषित्कटाक्षाणां नापतैिर्जर्जरं मनः ॥ ७१ ॥ तावन्मूलगुणाः सर्वे संति श्रेयोविधायिनः । यावद्ध्वंसी न रोषाग्निर्भस्मसात्कुरुते क्षणात् ।। ७२ ॥ गौरवं तावदेवास्तु प्राणिनः कनकाद्रिवत् । यावन्न भाषते दैन्यादेहीति द्वौ दुरक्षरौ ॥ ७३॥ तद्वत्ते वल्गनं तावत्सुंदरं बाललालितः। रत्नचूलस्य बाणैस्त्वं यावन्नो जर्जरीकृतः ॥ ७४ ॥