________________
१२२
जम्बूस्वामिचरिते
भूयोभूयः परामृश्य खेदमाप धरापतिः। किंचित्कर्तुं न शक्येत दुर्घटे तत्र कर्मणि ॥ ५३ ॥ नापि तत्र गमस्तूर्ण न क्षमो दातुमुत्तरम् । युग्मकाष्ठाधिरूढं वा राज्ञो दोलायते मनः ॥ ५४॥ तदत्रावसरे धीरो जम्बूस्वामिकुमारकः । ऊचे साम्नैव सानंदं गंभीरतरया गिरा ॥ ५५ ॥ स्वामिन्नेतत्कियत्कार्य त्वत्प्रसादात् प्रसिद्धयति । आस्तां दूरे सहस्रांशुस्तदंशोऽपि तमोपहः ॥५६॥ कार्यस्य साधनायालं मादृशोऽपि भविष्यति । किं पुनयुष्मदीया सा सज्जिता सर्वतश्चमः ॥ ५७ ।। उक्तं जम्बूकुमारेण श्रुत्वानंदमवीविशत् । श्रेणिकः श्रद्दधाति स्म प्रोक्तं तत्त्वं सष्टिवत् ।। ५८॥ ततश्वोचे भराद्भद्रं सानंदो मगधाधिपः । एवं चेत्क्षात्रधर्मस्य मर्यादा स्यादविप्लुता ॥ ५९ ॥ आत्मजन्म पुनर्जातमिव मन्यामहे वयं । कन्यालाभः पदार्थेषु क्षत्रियेषु यशश्चयः ॥६॥ ज्ञात्वेमां च त्वया धीर फलानां हि परंपरां। गंतव्यं त्वरितं तत्र नाद्य श्रेयो विलंबनं ॥ ६१। आदेशितः कुमारोऽसौ नृपेनानंदशालिना। असहायबलश्चैको निर्भीको गंतुमुद्यतः ॥ ६२ ॥ अथोवाच खगाधीशं नाम्ना व्योमगति प्रति । जम्बूस्वामिकुमारोऽसावुत्सुको वीरकर्मणि ॥६३॥ १ नाशरहिता।