________________
१२४
जम्बूस्वामिचरिते
इति कोपपरं वाक्यं शृण्वन् भूयो जगाद सः । अंतःसंधुक्षितो वह्निर्यथाग्रे प्रज्वलिष्यति ।। ७५ ।। भो भो व्योमगते प्राज्ञ यावदे (दि) त्थं कदाचन । यत्करिष्यामि बालोऽहं तत्त्वं द्रक्ष्यसि सांप्रतं ॥ ७६ ॥ कुर्वेति न वदत्येव कुर्वेति च वदंति च । क्रमादुत्तममध्यास्तेऽधमोऽकुर्वन् वदन्नपि ।। ७७ ।। सूक्तमुक्तं कुमारेण श्रुत्वेदं मगधाधिपः । अवोचत्प्रति विद्येशं ज्ञाततत्पौरुषस्तदा ।। ७८ ॥ यदुक्तं भवता व्योमचारिन्नत्र समक्षतः । एकाकी तत्र नीतोऽपि बालोऽयं किं करिष्यति ।। ७९ ।। स ते पक्षः सपक्षोऽपि प्रतिपक्षैर्दूषितोऽखिलः । मृगेन ना (न) हतः सिंहो हतश्चाष्टापदेन सः ॥ ८० ॥ हृतं येन जगत्सर्वं हतः सोऽपि जिनैर्यमः । जलदेनोपशमं नीतो प्रचंडो दवपावकः ॥ ८१ ॥ वायुः प्रचालयत्यभं न गिरीन्द्रं महोन्नतं । मिथ्याज्ञाने भवेदेवं रजन्यां चांधकारवत् ।। ८२ ॥ न च स्वात्मपरिज्ञाने यथा सूर्योदये तमः । अथ योषित्कटाक्षैश्च हता मन्मथशालिनः ॥ ८३ ॥ यो न क्रोधाग्निना दग्धः सर्वः कर्मोदयावृतः । कैश्वित्क्रोधानलः सोऽपि नीतः शांति क्षमांसा ॥ ८४ ॥ दीक्षामादाय तीर्थेशः सर्वसत्वहितंकरां । भिक्षया भुंजमानोऽपि पूज्यः स्यात्सुरनायकैः ॥ ८५ ॥