________________
१२०
जम्बूस्वामिचरिते
महतां न धनं प्राणाः किंतु मानधनं महत् । माणत्यागे यशस्तिष्ठेत मानत्यागे कुतो यशः ॥ ३१ ।। ये दृष्ट्वारिबलं पूर्ण तूर्ण भग्नास्तदाहवे। पलायंति विना युद्धं धिक् तानास्यमलीमसान् ॥ ३२॥ ये तु धैर्य विधायाशु युद्धं कुर्वति धीधनाः। मृतास्तत्रैव नो भग्ना धन्यास्ते हि यशस्विनः ॥ ३३ ॥ राजन् कृतवचौबंधस्तत्राहं गंतुमुद्यमी । आवश्यकमिदं कार्य विलंबोऽनुचितो मम ॥ ३४ ॥ तथाप्यालोक्य भावत्कं दर्शनं स्थानमुत्तमम् । वृत्तांतं गदितुं चापि स्थितोऽहं क्षणमात्रतः ॥ ३५ ॥ अतः स्थातुं क्षमं यावदतिमात्रं न मे मनः। राजन्नाज्ञापयत्वाशु यथा गच्छामि वेगतः ॥ ३६ ।। इत्युक्त्वा स नभोगामी त्वरितं प्रस्थातुमुद्यतः। जंबूस्वामीत्यथोवाच बचो विद्याधरं प्रति ॥ ३७॥ तिष्ठ तिष्ठ क्षणं यावद्भवेत्सज्जो नराधिपः । श्रेणिकोऽयं महासत्त्वो निर्जिताखिलशात्रवः ॥ ३८ ॥ चतुरंगबलोपेतो महाधैर्यो महामतिः। सप्तांगराज्यपूर्णागस्तेजस्वी यशसां चयः॥ ३९ ॥ श्रुत्वा वचः कुमारोक्तं खगो विस्मितमानसः। अवादीत्तं समाधाय युक्तिपूर्व वचोखिलं ॥ ४० ॥ युक्तमुक्तं त्वया बाल क्षात्रधर्मोचितं हि यत् । परत्वेदमसंभावि युक्त्याभासनिबंधनं ॥४१॥