________________
जम्बूस्वामिविजयवर्णनम्
११९
श्रुत्वा मुनिवचः पथ्यं मृगांको रुरुचे भृशम् । ततस्तामन्यस्मै दातुं स तूपेक्षापरोऽभवत् ॥ २०॥ प्रमाण अथो विद्याधिनाथोऽस्ति रत्नचूलः समाख्यया । हंसद्वीपमलंकुर्वन् स्वमहिम्ना महौजसा ॥ २१ ॥
प्रार्थयामास सोऽत्यर्थ कन्यां तां कमलाननाम् । | मृगांको न ददौ तस्मै मुनिवाक्यमलंघयन् ॥ २२ ॥ ततस्तेनातिरुष्टेन बद्धवैरेण कोपिना। स्वावज्ञं मन्यमानेन कृतं तस्य विरूपकम् ॥ २३ ॥ कृत्वा सैन्यं धनुःसज्जं विध्वस्तं तस्य पत्तनं । तेन पापात्मना तत्र वैत्य सानि निन्नता ।। २४ ।। सर्वोऽप्युद्वासितो देशस्तस्य यावान् समृद्धियुक् । धनधान्यसमाकीर्णग्रामश्रेणिविराजितः ॥ २५ ॥ उच्छिन्नानि बनान्यस्य दुर्गाश्चापि विदारिताः। आलकोलाहलेनालं सर्वस्वं भस्मसात्कृतं ॥ २६ ॥ त्रस्तस्तत्त्रासतः सोऽपि मृगांकः क्लीवतां श्रितः । अधिदुर्ग समासीनः प्राणान् रक्षति यत्नतः ।। २७ ॥ वृत्तांत सर्वमेवैतत्तत्रत्यं विद्यतेऽधुना । ज्ञानादन्यत्र को वेत्ति पुरस्ताकि भविष्यति ॥ २८ ॥ अथ तत्र मृगांकोऽपि सावधानश्च संयति । विधास्यति स संग्रामं श्वो दिने हि यथावलं ॥ २९ ॥ क्रमोऽयं क्षात्रधर्मस्य सन्मुखत्वं यदाहवे । वरं प्राणात्ययस्तत्र नान्यथा जीवनं वरं ।। ३०॥ १ नगरम् । २ मिथ्या कोलाहलेन । ३ युद्धे ।