________________
अथ सप्तमः पर्वः ।
भवंतु श्रेयसे वाचः श्रीसर्वज्ञमुखोद्भवाः । श्रीसाधोः टोडरस्यास्य साधुपासांगजस्य वै || १ || इत्याशीर्वादः । श्रेयांसं तीर्थकर्त्तारं हर्त्तारं दुःखसंततेः । वासुपूज्यं च वन्देऽहं सर्वविघ्नौघशान्तये ॥ १ ॥ अथैकदा सभामध्ये स्थिते राज्ञि सुविष्टरे । आनमन्मौलिभूपालनिषेव्यचरणांबुजे ॥ २ ॥ पतन्निर्झर संकाशचामरालीविराजिते । महामात्यादिराजीवराजन्यकसमन्विते ॥ ३ ॥ लीलया तत्समीपे च जम्बूस्वामिनि संस्थिते । निर्जिते तद्वपुः कान्त्या भूपानां तेजसां चये ॥ ४ ॥ तत्राकस्मान्नभोमार्गादागतः खचराधिपः ।
एकोऽप्यात्माभितेजोभिर्दिशाचक्रं विभूषयन् ॥ ५ ॥ दिव्यं विमानमारुढो रणदुर्घटाद्यलंकृतम् । व्योममार्गे ततः स्थाप्य समुत्तीर्णः क्षणादिह ॥ ६ ॥ स्थित्वावादीत्ततोऽध्येक्षं राजानं श्रेणिकं प्रति । प्रश्रयानुद्धतं वाक्यं नमस्कारपुरस्सरम् ॥ ७ ॥ नाना सहस्रशृंगोऽत्र राजते गिरिरुत्तमः । राजन् तत्र वसंत्येव महाविद्याधरा नराः ॥ ८ ॥
१ प्रत्यक्षं ।