________________
११६
जम्बूस्वामिचरिते
दृष्ट्वा वीर्य कुमारस्य भूपो विस्मयतां गतः । स्वासनस्यार्धभागे तं नीतवानथ नीतिवित् ॥ ८७ ॥ सुप्रसन्नमनाश्चार्यश्लाघां कुर्वन्पुनः पुनः । पुष्पौधैरिव सद्रत्नैः पूजयामास भक्तितः ॥ ८८ ॥ धन्योऽसि त्वं महाभाग त्वया नागो वशीकृतः । साध्वी जिनमती धन्या यद्गर्भे त्वत्समोऽजनि ॥ ८९ ॥ अथ दुंदभिनादैस्तं सार्द्धं नृपशतैर्वृतैः । पुरे प्रवेशयामास दंतिनः शिरसि स्थितम् ।। ९० ॥ अत्यादरात्ततश्चापि ताभ्यां नीतः स्वसद्मनि । पितृभ्यामर्चितः साक्षात्सन्मंगलपुरस्सरम् ।। ९१ ॥ सिंहासने निवेश्याशु विनयानतमस्तकौ । पितरौ पृच्छतो भद्रं तत्स्नेहातिचक्षुषौ ।। ९२ ।। कुशलं ते तनौ वत्स निघ्नतो गजयूथपम् । इति केचित्कुमारं तं स्पृशंतो मृदुपाणिना ।। ९३ ॥ क ते पुत्र वपुः सौम्यं कदलीदलसन्निभम् । क गिरीन्द्रसमो नागो निर्जितस्तु कथं त्वया ॥ ९४ ॥ विस्मयस्य परां कोटिं संदधानौ स्वसद्मनि । तस्थतुद्र सुखं यावत्पश्यंतौ तौ सुताननम् ।। ९५ ।। यस्मात् पुण्यविपाकाद्वै जम्बूस्वामिकुमारकः । मान्यो राजसभामध्ये तत्पुण्यं क्रियतां बुधैः ॥ ९६॥ इति श्रीजम्बूस्वामिचरित्रे भगवच्छ्रीपश्चिमतीर्थकरोपदेशानुसरित
स्याद्वादानवद्यगद्यपद्यविद्याविशारदपण्डितराजमल्लविरचिते साधुपासासुतसाधुटोडरसमभ्यर्थिते जम्बूस्वामिवसंत के लिहस्तिवशवर्णनो नाम षष्ठः पर्वः ।