________________
जम्बूस्वामिवसंतकलिहास्तवशवर्णनम्
ततोऽपि चिंतितं तैश्च वणिग्वयरहोनिशि । इत्थमेवोचितं कार्य कर्तव्यमथ सर्वथा ॥ ३१ ॥ चत्वारोऽपि परामृश्य ततः शीघ्र समागताः। तद्गहे दातुकामास्त कन्यास्ता जम्बुस्वामिने ॥ ३२॥ अथैकत्रोपविश्याशु विज्ञप्तं तैः समक्षतः। अहंदास अहो श्रेष्ठिन् धन्योऽसि त्वं जगत्त्रये ॥ ३३ ॥ यत्वद्गृहे महापूतः पुत्रोऽभूद्विश्वपावनः।। जम्बस्वामीति विख्यातस्त्रैलोक्यैकशिखामणिः ॥३४॥ अथास्मत्प्रार्थनां सार्थी ह्यमोघां कुरु सर्वतः । यत्त्वन्नन्दनयोग्या सु(स्यु)रस्मन्हे कुमारिकाः ॥ ३५॥ दत्तास्ताः श्रेयसेऽस्माभिः कन्याः स्युस्तद्वरोचिताः। जम्बूस्वामीति तद्भर्ता वर्धतां प्रीतिरुत्तमा ॥ ३६॥ युष्माभिः सममस्माकं मैत्रीभावः परस्परम् । यथा भृत्याः ऋयक्रीता वयमाज्ञापरायणाः ॥ ३७॥ सप्रश्रयं वचस्तेषां श्रुत्वा श्रेष्ठी मुदं दधन् । सस्मितोऽन्तःपुरे गत्वा मतं जिनमती प्रति ॥ ३८॥ आननंद ततो हर्षान्मंत्रायामंत्रिता सती । प्रायः पुत्रोत्सवे नार्यः साभिलाषाः स्वभावतः ॥ ३९ ॥ तद्वचोऽपि ततो नीत्वा श्रेष्ठी तानवदत्सुधीः । अहो यथेप्सितं कार्य कुर्वीध्वं यमुत्तमम् ॥ ४०॥ अथाक्षयतृतीयायां निश्चित्योद्वहमंजसा । ससत्कारपुरस्कारा जग्मुस्ते खालयं प्रति ॥४१॥ १ पूर्ण । २ कथितं ।