________________
११०
जम्बूस्वामिचरिते
सुर्पुत्री हि वरं चैको यः स्यात्स्वकुलदीपकः । न च भद्रं कुपुत्राणां सहस्राणि कुलद्विषाम् ॥ २० ॥ केचित्तत्र विशांनीथाः श्रुत्वा तद्गुणसंपदः ।
दातुकामाः स्वसात्मीयां कन्यां सोत्कंठिताः स्वयम् ॥ २१ ॥ एकस्तत्र विशांनाथो वसेच्छ्रीजिनभाक्तिकः । श्रेष्ठी सागरदत्तोऽस्य भार्या पद्मावती शुभा ॥ २२ ॥ दुहिता स्यात्तयोर्नाम्ना पद्मश्रीश्च पद्मानना । दिव्य सौंदर्यवर्यास्ति नवतारुण्यशालिनी ॥ २३ ॥ धनदत्तोऽपरस्तत्र वर्तते च वणिग्वरः ॥ भार्याकनकमालाख्या तस्यासीच्छोभनानना ॥ २४ ॥ नाम्ना कनकश्रीः पुत्री तयोरासीत्कलस्वना । तप्तसौवर्णवर्णाभा साकर्णायतचक्षुषी ।। २५ ।। आढ्यो वैश्रवणः श्रेष्ठी तत्रासीद्वणिजां पतिः । कांता विनयमालास्य लब्धान्वर्थाभिधानका ॥ २६ ॥ आत्मजासीत्तयोर्नाम्ना विनयश्रीरितीरिता । कामध्वजेव तन्वंगी सर्वलक्ष्मविभूषिता ।। २७ ।। तुर्यस्तत्र वणिग्दत्तो विद्यते श्रीसमन्वितः ॥ स्याद्विनयमती तस्य भार्या साध्वी पतिव्रता ॥ २८ ॥ रूपश्रीरिति विख्याता तयोरासीत्सुता वरा । पक्वविम्बाधरा तन्वी पृथुपीनपयोधरा ।। २९॥ अपि ताः स्युश्चतस्रोऽपि तरुण्यो नवयौवनाः । मन्यमाना इवाज्ञां प्रागिष्यतः स्मरभूपतेः ॥ ३० ॥
२ वरमेको गुणी पुत्रो न च मूर्खशतान्यपि । इति हितोपदेशे । २ नृपतयः ।