________________
जम्बूस्वामिचरितेकहिँचिद्गीतगोष्ठाभिनृत्यगोष्ठीभिरेकदा । कदाचिद्वाद्यगोष्ठीभिर्वीणागोष्ठीभिरन्यदा ॥१५१ ।। कर्हिचिदर्हिरूपेण नटतो नटचेटकान् । नाटयन् करतालेन लयमार्गानुयायिनः ॥ १५२॥ कदाचित्फुल्लकुन्देन्दुमन्दाकिन्याश्छटामयम् । गंधवैश्च समुद्गीतं स्वं समाकर्णयन् यशः ॥१५३॥ कदाचिद्दीर्घिकांभासु समं वयाकुमारकैः । जलक्रीडाविनोदेन रममाणः ससंपदम् ॥ १५४ ॥ सारवं जलमासाद्य सारवं जलकूजितः। तारवैयंत्रकैः क्रीडन् जलास्फालकृतारवैः ॥१५५ ॥ कदाचिनंदनस्पर्द्धितरुशोभाचिते बने। वनक्रीडां समातन्वन् वयस्यैरन्वितः शिशुः॥१५६ ॥ इति कालोचितान् क्रीडा विनोदांश्च स निर्विशन् । सुखं स्यादष्टवर्षीयो जम्बूस्वामी कुमारकः ॥१५७।। इति भुवनपतीनामर्चनीयोऽभिगम्यः सकलगुणमणीनामाकरः पूर्णमृतिः सह नृपतिकुमारनिर्विशन्कामभोगानरमत चिरमस्मिन्पुण्यगेहे स देवः ॥१५८ ॥ तारालीतरलां दधन् सुरुचिरां वक्षस्थलासंगिनीम् लक्ष्म्या दोलनवल्लरीमिव ततां तां हारयष्टिं पृथु । ज्योत्स्नामन्यमांशुकं परिदधकांचीकलापान्वितम् रेजेऽसौ नृपदारकैरुडुसमैः क्रीडन् यथेन्दुः शिशुः ॥१५९ ॥ १ दासान् । २ गंगायाः ।