________________
जम्बूस्वामिजातकर्मोत्सवशैशवविनोदवर्णनम्
१०५
बालावस्थामतीतस्य तस्याभूद्रुचिरं वयः। कौमारं देवनाथानामर्चितस्य महौजसः॥१४॥ वपुः कांतं प्रिया वाणी मधुरं तस्य वीक्षितम् । जगतः प्रीतिमातेनुः सस्मितं च प्रजल्पितम् ।। १४१ ॥वा कलाश्च सकलास्तस्य वृद्धौ वृद्धिमुपाययुः। इंदोरिव जगञ्चेतो नंदनस्य जगत्पतेः ॥ १४२ ॥ विश्वविश्वेश्वरस्यास्य विद्याः परिणताः स्वयम् । ननु जन्मान्तराभ्यासः स्मृतिं पुष्णाति पुष्कलाम् ॥ १४३॥ कलासु कौशलं श्लाघ्य विश्वविद्यासु पाटवम् । क्रियासु कर्मठत्वं च स भेजे शिक्षया विना ॥१४४॥ वाङ्मयं सकलं तस्य प्रत्यक्ष वा प्रभोरभूत् । येन विश्वस्य लोकस्य वाचस्पत्यादभूद्गुरुः ।। १४५॥ यथा यथास्य वंधते गुणांशा वपुषा समम् । तथा तथास्य ज(य)ततो बंधुता चागमन्मुदम् ।। १४६॥ परमायुरथास्याभूचरमं बिभ्रतो वपुः । आरोग्यं तत्र सौभाग्यं सौंदर्य च विशेषतः ॥१४७॥ कदाचिल्लिपिसंख्यानं गंधर्वादिकलागमम् । अभ्यस्तपूर्वमभ्यस्य स्वयमभ्यासयन् परान् ॥ १४८॥ छंदोविचित्यलंकारप्रस्तारादिविवेचनैः। कदाचिद्भावयन् गोष्ठी चित्राद्यैश्च कलागमैः ॥१४९ ॥ कदाचित्पदगोष्ठीभिः काव्यगोष्ठीभिरन्यदा। वावदूकः समं कैश्चिजल्पगोष्ठीभिरन्यदा ॥ १५०॥