________________
१०४
जम्बूस्वामिचरिते
दुकूलैर्मणिमाणिक्यैर्यच्छुशुभे गृहांगणम् । तत्केन वर्णितुं शक्यं कविनापि महौजसा ॥ १२९ ।। दानं प्रयच्छतस्तस्य श्रेष्ठिनो न धनक्षयः । दरिद्रो न च लक्ष्भ्यां तत्परं पात्रे दरिद्रता ॥ १३० ॥ इति कल्याणमालाभिलालितः सत्कृतः शुभः। जम्बूस्वामीति नाम्नापि ख्यातं पित्रा सबन्धुना ॥ १३१ ॥ धात्र्यो नियोजितास्तस्य श्रेष्ठिना वृद्धिहेतवे । मज्जने मण्डने चास्य संस्कारे क्रीडनेऽपि च ॥१३२ ॥ ततोऽसौ स्मितमातन्वन्संस्पर्शन् मणिभूमिषु । पित्रोर्मुदं ततानाद्ये यस्याद्भुतविचेष्टितः ॥ १३३ ॥ जगदानंदि नेत्राणामुत्सवं पदमूर्जितम् । कलोज्ज्वलं तदस्यासीच्छैशवं शशिनो यथा ।। १३४॥ मुग्धस्मितमभूदस्य मुखेन्दौ चंद्रिकामलम् । तेन पित्रोर्मनस्तोषजलधिर्वधतेतराम् ॥ १३५ ।। पीठबन्धः सरस्वत्या लक्ष्म्या हसितविभ्रमः। कीर्तिवल्ल्या विकासोऽस्य मुखे मुग्धास्मयोऽभवत् ॥ १३६ ॥ स्खलत्पदं शनैरिन्द्रनीलभूमिषु संचरन् । स रेजे वसुधां रक्तैरब्जैरुपहरन्निव ॥ १३७ ॥ रत्नपांशुषु चिक्रीड स वयोनिकर समम् । पित्रोर्मनसि संतोषमातन्वन् ललिताकृतिः ॥ १३८ ॥ प्रजानां दधदानन्दं गुणैराहादिभिर्निः । कीर्तिज्योत्स्नापरीतांगः स वभौ बालचंद्रमाः ॥ १३९ ॥