SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ • जम्बूस्वामिजातकर्मोत्सवशैशवविनोदवर्णनम् १०१ जय देव महादेव केवलज्ञानलोचन । कृपावारिनिधे नंद सर्वभूतहितंकर ।। ९६ ॥ जय देवाधिदेव त्वं घातिकर्मविनाशकृत् । मोहमल्लोपमल्लस्त्वं धर्मतीर्थप्रवर्तकः ॥ ९७।। यथा त्वं शरणं स्वामिन्नस्ति त्रिजगतामपि । तथा मे शरणं भूयाद्यावत्स्यां त्वत्समो विभो ।। ९८॥ इति स्तुत्वा जगामासौ श्रेणिको नगरं प्रति । कुर्वन् जिनोदितं धर्म कर्ममर्मनिवर्हणम् ।। ९९ ॥ राज्यं कुर्वति भूपाले स्थिते कालोऽगमत्कियान् । अर्हदासाभिधः श्रेष्ठी राज्यकार्यधुरंधरः ॥१०॥ भार्या जिनमती तस्य सीतेव शीलशालिनी । परं नालंकृता रूपैगुणैरपि विभूषिता ।।१०१।। तौ दंपती मिथः स्यातां स्नेहा सुखसंस्थितौ । भोगाब्धिमध्यगौ चापि जैनधर्मपरायणौ ॥१०२॥ अथान्येयुः सुखं मुप्ता सार्हदासस्य भामिनी । निशायाः पश्चिमे भागे संददर्श स्वमावलीम् ॥ १०३॥ पश्यति स्म शुभं पूर्व जम्बूफलकदम्बकम् । भ्रमरालीसमालीढं संशोभि नयनप्रियम् ॥ १०४॥ निधूमां ज्वलनज्वालां शालिक्षेत्रं च शाडलम् । सारविंदं सरो पश्यन् सवेलं च पयोनिधिम् ॥१०५॥ यथाद्राक्षीनिशि स्वमान्धातो भत्रे न्यवेदयत् । आकर्ण्य श्रीमतीप्रोक्तमहदासोऽभिनंदत ॥१०६॥
SR No.034462
Book TitleJambuswami Charitram
Original Sutra AuthorN/A
AuthorRajmalla Pandit, Jagdishchandra Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1937
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy