________________
१००
जम्बूस्वामिचरिते
अर्हदासोपदेशं हि श्रुत्वा भूद्भवभीरुकः । रुरुचे धर्मपीयूषं जिनदासो गदातुरः ।। ८५ ।। अर्हद्दासं समुद्दिश्य जिनदासेनोक्तं वचः । नूनं यदनिष्टं कर्म तत्सर्वं मामकात् कृतम् ॥ ८६ ॥ गतोऽयं मे वृथा कालो मग्नस्य व्यसनार्णवे । अद्य मां कृपया भ्रातः सापराधं समुद्धर । ८७ ॥ इह जन्मनि बन्धुस्त्वं यथा सद्धितकारकः । परलोकेऽपि धर्मात्मन् सहायो भव तद्यथा ॥ ८८ ॥ अहर्दासोऽप्यदः श्रुत्वा तद्वचः करुणास्पदम् । साधने धर्मकार्यस्य मतिं धत्ते स्म शुद्धधीः ॥ ८९ ॥ अणुव्रतानि तस्यातो ग्राहितानि मनीषिणा । संन्यासेन ततो मृत्वा यक्षोऽभूत्पुण्यपाकतः ॥ ९० ॥ नर्त्तति स्म ततश्चासौ निशम्यास्मद्वचो नृप । अंत्य केवलिनो जन्म मशे तद्भविष्यति ॥ ९१ ॥ अद्दासगृहे पुत्रो निःसंदेहं भविष्यति । विद्युन्मालिचरः सोऽयं जम्बूनामांऽत्यकेवली ॥ ९२ ॥ ततश्चापि परं भूप जम्बूस्वामिकथानकम् । कथयिष्यंति बुद्धीन्द्राः सत्पुण्यार्जनहेतवे ।। ९३ । श्रुत्वा श्रीभगवद्वाक्यं मुदितः श्रेणिको नृपः । पप्रच्छाभीप्सितं सर्व यल्लोकेऽस्मिन् चराचरम् ।। ९४ ॥ स्वालयं गंतुकामोऽसौ प्रारब्धं स्तवनं ततः । गद्यपद्यादिसद्वाक्यैर्जगावर्हगुणानपि ।। ९५ ।।