________________
जम्बूस्वामिजातकर्मोत्सवशैशवबिनोदवर्णनम्
तस्या गर्भे महापूते पुण्यादवतरिष्यति । सम्यग्दर्शनपूतात्मा मुक्तिभर्ता भविष्यति ॥ ५३॥ अथ कश्चिन्महायक्षो ननानंदनिर्भरः। जिनवाक्यसुधापूरैः परिप्लावितसत्तनुः ।। ५४ ॥ जय नाथ जय स्वामिन् जय केवललोचन । त्वत्प्रसादात्कृतार्थोऽस्मि प्राप्तं पुण्यफलं मया ॥ ५५॥ धन्यमेतत्कुलं इलाध्यं यत्रोत्पत्स्यति केवली । भानुमानिव भात्यस्मिन् केवलज्ञानभानुभिः ॥५६॥ स एव पावनो देशस्तदेव नगरं शुभम् । तत्कुलं तगृहं पूतं यत्र धर्मपरंपरा ॥ ५७॥ नर्तयित्वाथ यक्षोऽसौ स्वासने स्थितवान् मुदा । श्रेणिकः पृच्छति स्मैतकिमिदं ब्रूहि भो विभो ।। ५८ ॥ व्याजहार गणाधीशो राजानं श्रेणिकं प्रति । नगरेऽत्रैव भो राजन्नासीद्वणिक्सुतो वरः ।। ५९ ।। धनदत्तो नाम्ना सौम्यो लक्ष्म्या श्रीधनदोपमः। तस्य भायो समाख्याता नाम्ना गोत्रमती शुभा ॥ ६०॥ सहायाक्ष्या (दक्ष)सौख्यस्य केवलं श्रेयसोऽपि च । ज्येष्ठः पुत्रस्तयोरासीदर्हद्दासोऽतिबुद्धिमान् ॥ ६१ ॥ ततः स्याञ्चलधीमांश्च जिनदास इतीरितः।
........... ॥ ६२॥ तयोर्मध्ये कनिष्ठो यो जिनदासः समाख्यया। दुर्दैवयोगतो नूनं स्यात्सर्वव्यसनातुरः ॥ ६३॥