________________
जम्बूस्वामिजातकर्मोत्सवशैशवविनोदवर्णनम्
यद्यदृष्टश्रुतं वाथ ज्ञानं विज्ञानमेकशः । तच्छिक्षितं क्षणादेव ज्ञातं पूर्वमिवामुना ।। ३१ ।। शस्त्रशास्त्रादिविद्यासु दुष्करं नास्य किंचन । दृष्टश्रुतानुभूतत्वादभ्यासं कुर्वतोऽनिशम् ।। ३२ ।। अन्येद्युश्चितयामास दुर्दैवाद्दुष्टबुद्धिमान् । शिक्षितं न मया चौर्यमेकं सर्वगुणास्पदम् ॥ ३३ ॥ निधायेति स्वचित्तेऽसौ रात्रौ गत्वा पितुर्गृहे । शनैः शनैः प्रविश्याशु तत्र तस्करवत्क्रियः ॥ ३४ ॥ ततश्चादाय रत्नानि महार्घानि मनीषया । गच्छन् दृष्टः स केनापि रत्नोदद्योतैरनल्पकैः ।। ३५ ।। प्रातस्तेनेह तत्सर्वे भूपस्याग्रे निवेदितम् ।
श्रुत्वा भूपस्ततोऽवादीद्वेगादानीयतां स हि ।। ३६ ॥ इत्याकर्ण्य स्वधावद्भिरानीतोऽपि निजालयात् । धैर्यवान् वीरकर्मासी सन्मुखं स्थितवानितः ॥ ३७ ॥ नीतो बोधयितुं राज्ञा सान्नैव सौम्यया गिरा । पुत्र चौर्यमिदं निंद्यं कृतं कस्य कृते त्वया ॥ ३८ ॥ भोगान् भोक्तुं सकामोऽसि यदि त्वं मम का क्षतिः । यथोप्सितान् भोगान् मुक्ष्व योषिदकंदनादिवान (कवकैः) ३९ । यत्किंचिद्दुर्लभं लोके तत्सुलभं ममालये । यत्किचिद्रोचते तुभ्यं तद्गृहाण समक्षतः ॥ ४० ॥ इदं चौर्य महानिद्यमिहामुत्र च दुःखदम् । मा कुरुष्व महाप्राज्ञ सर्वसंतापकारणम् । ४१ ।। १ पूर्व ज्ञातमिव ।
९५