________________
जम्बूस्वामिजातकर्मोत्सवशैशवविनोदवर्णनम्
व्याधिव्याप्तशरीरत्वाद्धातवः स्युर्विपर्ययाः । तस्य तीव्राभिलाषी स्याच्छ्रेष्ठी कुत्सितवस्तुनि ॥ ९ ॥ रोगित्वादस्य बोधोऽपि सद्यो मंदायितो यतः । यष्टिमुष्टिप्रहारैश्च ताडयेत्ताश्च योषितः ।। १० ।। अकस्माद्धांतितो दुष्टमसद्वाक्यं वदेत्कुधीः ।
विटेः कश्चिन्नरो रंडे भवतीनां पार्श्वे स्थितः ॥ ११ ॥ पुनः कंचिन्नरं पार्श्वे द्रक्ष्याम्यत्र कदाचन ।
छेत्स्ये नासादिकं रंडे प्राणान् हंतास्मि वः स्फुटम् ।। १२ ।। इत्यादिकं वचस्तीक्ष्णं कर्णशूलकरं वदन् । पापजातः स वीभत्सी रौद्रध्यानपरायणः ॥ १३ ॥ दर्श दर्शमदृश्यं तं जातास्ता दुःखपीडिताः । धिग्जीवनं वरं मृत्युरतश्चैव योगतः ।। १४ ।। चिंतयंत्यांऽतिभीतास्ता यात्रार्थ निर्ययुर्गृहात् । यत्रारण्ये महानस्ति वासुपूज्यजिनालयः ।। १५ । आलोक्य चैत्यविम्बानि चतस्रोऽप्यगमन्मुदम् । अस्माकं सफलं जन्म जातमद्य कृतार्थताम् ॥ १६ ॥ ततो मुनिमुखात्ताभिर्धर्माख्यानं श्रुतं महत् । ज्ञातधर्मफलाभिस्तु संग्रहीतं गृहितम् ।। १७ ।। व्रतमादाय ताभिस्तु स्थितं सद्मनि यावता । सूरसेनो महापापो यावताऽगाद्यमालयम् ॥ १८ ॥ ततः परं तत्सर्वस्वं गृहीत्वाशु जिनालयः । तुंगः कारापितस्ताभिः केवलं धर्मबुद्धितः ॥ १९ ॥
१ जारः । २ युष्माकं ।
९३