SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ भावदेवभवदेवब्रह्मोत्तरस्वर्गगमनवर्णनम् तत्र तीव्रतपोवही दह्यमानं विलोक्य वै । मारक्रोधादयो नष्टाः प्रादुरासन्न ते पुनः॥ १६४॥ एवं वर्षचतुःषष्टिसहस्राणि तपस्यता । नीतानि पापभीतेन कुमारेण महात्मना ॥ १६५ ॥ स्वायुरते ततो जातो यथाजातो महामुनिः।। त्यक्त्वा चतुर्विधाहारं प्रांत्यविधी जितेन्द्रियः ।। १६६ ।। ततस्तपःफलान्नूनमणिमादिगुणान्वितः। ब्रह्मोत्तरे सुरेन्द्रोऽभूद्विद्युन्माली तदाख्यया ।। १६७॥ आयुःप्रमाणमस्यासीदशसागरसंख्यकम् । यहादेव्योऽपि विद्यन्ते चतस्रः प्राणवल्लभाः ॥ १६८ ॥ सोऽयं प्रत्यक्षतो राजन् राजते दिवि देवराट् । नास्य कांतिरभूत्तुच्छा सम्यक्त्वस्यातिशायितः ॥ १६९ ।। अथ सागरचन्द्राही यो मुनिव्रततत्परः। संन्यासेन वपुस्त्यक्त्वा प्रतीन्द्रस्तत्र सोऽभवत् ।। १७० ।। सोऽपि नानाविधं सौख्यं भुक्ते पंचाक्षसंभवम् । मनोभिलषितं रम्यं निर्विघ्नं च यथेप्सितम् ॥१७१ ।। धर्मात्सुखं कुलं शीलं धर्मात्सर्वा हि संपदः । इति मत्वा सदा सेव्यो धर्मवृक्षः प्रयत्नतः॥ १७२ ।। इतिश्री जम्बूस्वामीचरित्रे भगवच्छ्रीपश्चिमतीर्थकरोपदशानुसरितस्थाद्वादानवद्यगद्यविशारदपण्डितराजमल्लविरचिते साधुपासातनयश्रीसाधुटोडरसमभ्यर्थिते भावदेवभवदेवब्रह्मोत्तरस्वर्गगमनवर्णनो नाम चतुर्थः सर्गः ।
SR No.034462
Book TitleJambuswami Charitram
Original Sutra AuthorN/A
AuthorRajmalla Pandit, Jagdishchandra Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1937
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy