________________
९०
जम्बूस्वामिचरिते
नूनं स्वात्महितायासौ निर्विण्णो भवभीरुकः । उग्रं तपः समादाय गंतातः परमां गतिम् ।। १५३ ॥ जानन्नपि महामोहादुवाच धरणीपतिः । सुनो विधेहि कारुण्यं मयि यथान्यशरीरिषु ।। १५४ ॥ चातुर्यैकनिधे सौम्य पर्यालोचय सांप्रतम् । तथा ते तपसः सिद्धिर्मम भावत्कदर्शनम् ।। १५५ ॥ ततः संप्रस्थितो भूत्वा कुरु पुत्र यथेप्सितम् । उग्रं तपोत्रतादीनि यथाशक्ति समाचर ।। १५६ ॥ रागद्वेषौ न विद्यते यद्यात्मज वनेन किम् || स्यातां चेदथ संक्लेशात्तदानेन वनेन किम् ॥ १५७ ॥ इत्यादिकं पितुर्वाक्यं श्रुत्वासी करुणास्पदः । क्षणं वाचंयमी तस्थौ निस्तरंगसमुद्रवत् ।। १५८ ।। ततो मृदुगिरोवाच कुमारः करुणार्दितः । एवमस्तु करिष्येऽहं यथा तात मनीषितम् ।। १५९ ॥ कुमारस्तद्दिनान्नूनं सर्वसंगपराङ्मुखः । ब्रह्मास्त्रोऽपि मुनिवत्तिष्ठते गृहे ।। १६० ॥ अकामी कामिनां मध्ये स्थितो वारिजपत्रवत् । अहो ज्ञानस्य माहात्म्यं दुर्लभ्यं महतामपि ।। १६१ ॥ कचिदेकांतरे भुंक्ते दूयन्तरेऽथ कदाचन ।
पक्षान्तरेऽथ मासान्ते स्वच्छं सजलमोदनम् ॥ १६२ ॥ प्राशुकं शुद्धमाहारं कृतकारितवर्जितम् ।
आदत्ते भिक्षयानीतं मित्रेण दृढवर्म्मणा ।। १६३ ॥