________________
भावदेवभवदेवब्रह्मोत्तरस्वर्गगमनवर्णनम्
पुत्रः कोऽपि न कस्यापि पिता वा न सुतस्य वै । उन्मज्जति निमज्जति जीवा जलतरंगवत् ।। १४४ ॥ नेयं लक्ष्मी पितः साध्वी सद्भिर्युक्त्वोज्झिता यतः। एकं त्यक्त्वा श्रितान्यत्र पण्यदारेव चंचला ॥ १४५ ॥ कर्तव्यो नात्र विश्वासः क्षणं वाऽनवधानतः । ठकाभिसारिका तुल्या कारणं दुःखसंकटे ॥१४६ ॥ भोगा भुजंगभोगाभाः सद्यःमाणापहारिणः । स्वग्नेन्द्रजालवत्तात तारुण्यं विषयास्पदम् ॥ १४७ ।। इदं प्रत्यक्षतो ज्ञानं प्रत्यभिज्ञानकारणम् । स्यात्साध्वी यदि राज्यश्रीः कथं त्यक्ता महर्षिभिः ।। १४८।। श्रूयतेऽद्य पुरावृत्तं श्रीमंती ज्ञानलोचनाः । त्यक्त्वा सर्वांगसाम्राज्यं तपश्चक्रुर्विमुक्तये ॥ १४९ ।। कुरु तात समाधानमलं भोग्यैरभोग्यकैः। आपाते मधुरै रम्यविपाके कटुकैरिह ॥ १५० ।। सं धर्मो यत्र नाधर्मस्तत्पदं यत्र नापदः । तज्ज्ञानं यत्र नाज्ञानं तत्सुखं यत्र नामुखम् ।। १५१ ।। श्रुत्वा पुत्रवचश्चक्री शब्दसंदर्भगर्भितम् । निश्चिकाय ततः प्राज्ञः सुतस्यापि मनीषितम् ।। १५२ ।।
१ गणिका । २ 'टगिनी' दूतो। ३ यशस्तिलकचम्पूकाव्ये सप्तमाश्वासे लोकोऽयं निम्नरूपेणोपलभ्यते।
सधों यत्र नाधर्मस्तत्सुखं यत्र नासुखं । तज्ज्ञानं यत्र नाज्ञानं सा गतियत्र नागतिः ।।