________________
जम्बूस्वामिचरिते
आकर्येदं वचश्चक्री निष्ठुरं वज्रघातवत् । व्यग्रं चेतश्चमत्कारं न चकारोत्तरपदम् ।। १३३ ॥ क्षणं वेपथुरस्यासीदि व्यामोहशालिनि । स्रवदश्रुसमाच्छन्नचक्षुःपक्षमावली बलात् ॥ १३४ ।। गद्गदं च वचो जल्पन्ननल्पकरुणास्वनः । चिललाप महीपालो हा विग्धिग्देवचेष्टितम् ।। १३५ ।। अन्यथा चिंतितं कार्य देवात्संपद्यतेऽन्यथा । यथा वारिजमध्यस्थः षट्पदः करिणा इतः ॥ १३६ ।। रुद( दि)त्येवं ससंतापं चक्रवर्तिन्यनल्पशः । अंतःपुरजनैः सार्ध वनमाला गता तदा ॥ १३७ ॥ पुत्र केनापि दुष्टेन पाठितस्त्वं स्तनंधयः । अप्रगल्भा मतिश्चेयं विद्यते तव संप्रति॥१३८ ।। बाल्यावस्था क्व ते वत्स क्य प्रवज्यापदं महत् । इदं कार्यमसंभावि घटते न कदाचन ॥ १३९ ।। ततो अ॒क्ष्व महाभोगान् दिव्यानमरदुर्लभान् । आनमत्सर्वभूपालसाम्राज्यपदसंस्थितः ॥ १४० ।। इत्यादिकं पितुर्वाक्यं शृण्वन्नांगीचकार सः। कुमारः प्रतिवाक्यं च ददौ कोमलया गिरा ॥ १४१ ।। तात कर्मवशान्नूनं वंभ्रम्यते च जंतुभिः। चतुतिभवावर्ते स्थितं क्वापि न निश्चलम् ।। १४२ ।। कदाचिन्नारको भूत्वा भवति तिर्यग्वा नरः। ततः स्वायुःक्षये मृत्वा स्यादेवोऽथ तदन्यकः ॥ १४३ ॥