________________
भावदेवभवदेवब्रह्मोत्तरस्वर्गगमनवर्णनम्
ततो यथाकथंचिद्वै यनैनीतोऽवधानंताम् । कुमारः प्रतिबुद्धोऽभूत्सहस्रांशुरिवाहनि ॥ १२२ ।। पृष्टः सर्वैः कुमारोऽसौ कथं मूभिवत्तव । कथयाशु यथार्थत्वं शर्मदं वाक्यमुत्तमम् ।। १२३ ॥ ततोऽबादीद्विमृश्यासौ गुह्यमाकूतमात्मनः। मुहृदे मंत्रिपुत्राय नाम्ना दृढवर्मणेऽनिशम् ।। १२४ ।। चिंतागृढगदार्तानां मित्रं स्यात्परमौषधम् । यतो युक्तमयुक्तं वा सर्व तत्र निवेद्यते ॥ १२५ ।। मित्राहं भवभोगेभ्यः संत्रस्तोऽस्मि भवाब्धितः । नानायोनिशतावत्तैर्दुःखभीमैर्दुरुत्तरात् ।। १२६ ॥ तदाकूतं समादाय कर्तुमिच्छत्ययं तपः। सर्व चक्रधरस्याग्रे कथितं दृढवर्मणा ॥ १२७ ॥ स्वामिन्नसो समासन्नभव्यजीवो विशुद्धदृक् । विद्यते मन्यमानः सन्साम्राज्यं तृणवचितः ।। १२८ ।। सर्वथाद्य विरक्तात्मा सर्वभोगेषु निस्पृहः । न चास्य लेशतोऽपीश मूर्छा स्याज्जीवने धने ॥ १२९ ॥ अयं स्वात्मस्वरूपज्ञस्तत्त्ववेदी विदांवरः । सर्व हेयमुपादेयं वेत्ति जैनो यतियथा ॥ १३० ।। न केनाप्यन्यथाकर्तुं शक्यते दृढबुद्धिमान् । रागवाक्यमहावातैरचलोऽचलवद्रवम् ।। १३१ ।। सांप्रतं प्राप्तवैराग्यः संस्कारात्पूर्वजन्मनः । निःशल्यः सर्वजीवेषु प्राब्राजिपुरसंशयम् ।। १३२ ।।
१ चेतनतां । २ मोहः ।