________________
भावदेवभवदेवब्रह्मोत्तरस्वर्गगमनवर्णनम्
क्रमात कुर्वन् विहारं स चारणद्धिविराजितः । संप्राप्तः श्रुतसंपूर्णो वीतशोकां पुरी वराम् ।। १००॥ तत्र मध्याह्नकालेऽसौ कृतेर्यापयशुद्धिभाक् । पारणार्थमनौद्धत्या (त्यं) विजहर्ष यथाविधि ।। १०१॥ राजसौधसमीपस्थे कस्यचिच्छेष्टिनो गृहे । नवकोटिविशुद्धः स ग्रासं जग्राह शुद्धधीः ।। १०२।। मुनिदानस्य माहात्म्यारत्नवृष्टिरभूत्तदा । नभोमार्गात्सुधाराभिर्दातुः पुण्यगृहांगणे ।। १०३ ।। अवलोक्य जनाः सर्वे वावदूकाः परस्परम् । जजल्पुः किमिदं तूर्ण जातं चित्रास्पदं महत् ।। १०४ ॥ परस्परविवादाद्वै तत्र कोलाहलोऽजनि । ततः शिवकुमारोऽपि श्रुतवानितिवृत्तकम् ॥ १०५ ।।
आनंदात्कौतुकाचापि सोधस्थोऽपि निरीक्ष्य तम् । मुनीशं विस्मयं पाप किंचिचित्तेऽप्यचिंतयत् ॥ १०६ ॥ अहो क्वापि मया दृष्टो मुनीशोऽयं भवांतरे। स्नेहाई मे मनोऽल्हादि संस्कारात्पूर्वजन्मनः ॥ १०७॥ पृच्छाम्येनं मुनिं गत्वा संशयध्वांतशांतये। इति चित्ते चिंतयामास तावज्जाता भवस्मृतिः ।। १०८ ॥ तया सर्व तदाज्ञायि वृत्तं पूर्वभवोत्थितम् । नूनं मम ज्येष्ठो भ्राता तपःस्थोऽयं महामुनिः ॥१०९ ।। अनेनैव तदा धर्मे स्थापितोऽहमनुग्रहात् । येन पुण्योदयेनैव प्राप्ता सौख्यपरंपरा ॥ ११०॥ १ ध्वान्तं तमित्रं तिमिरं तमः इत्यमरः ।