________________
भावदेवभवदेवत्रह्मोत्तरस्वर्गगमनवर्णनम्
जम्बूद्वीपेऽथ क्षेत्रेऽस्मिन् भारते भरतान्विते । देशेऽत्र मगधे रम्ये वर्धमानाभिधे पुरे ।। ८० ।। युवां द्विजपुत्रौ स्यातां वेदविद्यौ विदांवरौ । प्रथमो भावदेवाख्यो द्वितीयो भवदेवकः ।। ८१ ॥ अथैकदा स सौधर्ममुनिना प्रतिबोधितः । भावदेवस्तपः शीघ्रमग्रहीगृहभीरुकः ।। ८२ ।। भवदेवो लघुभ्रीता ततस्तिष्ठति सद्मनि । इत्थं गतः कियान्कालः स्वाधिकाराप्रमत्ततः ॥ ८३ ॥ धर्मानुरागतः सोऽयं भावदेवा मुनिस्तदा । भ्रातरं बोधितुं तत्र व्याजगाम पुनः शमी ॥ ८४ ॥ ततो धर्मोपदेशैश्च नीयमानोऽप्यवक्रताम् । सशल्योऽपि च लज्जावान् दीक्षां जग्राह शुद्धधीः ।। ८५ ।। ततः कुतश्चिद्धेतोश्च निःशल्यो व्रततत्परः । बभूव मुनिसांनिध्याचारित्रैकनिधिः पुनः ।। ८६ । क्रमाच्चिरतरं कालं चारित्रं चरतो युवाम् । अंते समाधिमरणं प्रापतुः पूर्णपुण्यतः ॥ ८७ ॥ ततः सनत्कुमाराख्ये तृतीये दिवि जग्मतुः । तत्रोपपोदशय्यायां जातौ पूर्णशरीरकौ ॥ ८८ ॥ तत्रस्थौ दिव्यभोगांश्च भुंक्तो निःप्रत्यनीकतः । मनोभिलषितान् रम्यान् यावत्सागरसप्तकम् ॥ ८९ ॥
८३
१ शुकशोणितयोः मिश्रणं विनैव देवाः नारकाश्च उपपादशय्यायां युवान एव उत्पद्यते । उपेत्योत्पद्यते अस्मिन् इति उपपादः ।