________________
८४
वादार्थसंग्रहः
[ ४ भाग:
तया पुंस्त्वविशिष्टधात्वर्थस्य तत्रेवार्थत्वासंभवेन दुष्टोपमात्वसंभवात् । न चैवमिदानीं चैत्रेण मैत्र एव दृश्यते इत्यादावेवार्थावरुद्धेऽपि मैत्रादौ भावनान्वयो न स्यात् । आदिना नञर्थातिरिक्तस्य संग्रहाद्वस्तुविशेषणत्वमात्रेणानुपस्थितत्वमनवरुद्धार्थः । खलेकपोतन्यायेनान्वयबोधेऽविशेषणस्यातिप्रसक्तत्वादनुपस्थितेर्वा तत्त्वेन तात्पर्यविषयार्थकम् । इत्थं च चैत्रश्चेत्रं जानातीत्यादावपि नानुपपत्तिः । न चैवं प्रथमान्तोपस्थाप्य इति व्यर्थ चैत्रेण सुप्यत इत्यादी धात्वर्थवारकत्वात् । यदि च तात्पर्यधीर्न शाब्दबोधमात्रे हेतुस्तत्वे भावनाद्यन्वयतात्पर्यधिय एव तद्धेतुत्वसंभवादिति नेदं युक्तमित्युच्यते, तदा विशेषणत्वमात्रप्रयोजकप्रथमान्ततत्तपदानुपस्थितत्वं तदर्थः । प्रथमान्तोक्ततण्डुलादिपदजन्योपस्थितेर्विरोधित्वं फलितार्थः । इत्थं च चैत्रस्तण्डुलं पचतीत्यादौ तण्डुलपाकादिवारणायाप्याह- - प्रथमान्तपदोपस्थाप्य इति तादृशपदजन्योपस्थितिहेतुत्वाभिप्रायम् । विशेषणत्वमात्रप्रयोजकतत्तत्प्रथमान्तपदान्यप्रथमान्तपदजन्योपस्थितत्वे वा दलद्वयतात्पर्यम् ।
अथ भूतले घटो नास्तीत्यादौ भावनाया: अभावान्वयित्वं संख्यायाः प्रतियोगिगामित्वं च कुत इति चेत् । भावनाबोधेऽत्र घटादिपदजन्योपस्थिते: संख्या-बोधे नन्पदजन्योपस्थितेः प्रतिबन्धकत्वात् । न च तत्तदानुपूर्वीज्ञानस्य तत्तद्विशेयकभावना बोधे कारणत्वज्ञान सहकृतस्य तत्र कारणत्वे किमनेनेति वाच्यम् । प्रथ - -मान्तपदजन्योपस्थितेरपि तत्र हेतुत्वं जानतस्तां विना तद्बोधाभावादिति दिक् ।
यत्तु दृश्यते चैत्रः पचतीत्यादावेकाख्यातमुद्देश्यतावच्छेदकीकृत्यापराख्यातान्वयवारणायाख्यातोपस्थाप्यकर्मत्वाद्यविशेष्यत्वार्थकं तदिति तन्न । तथाऽपि चैत्रो गच्छति रूपवानित्यादेराख्यातार्थानुद्देश्यतावच्छेदकरूपवदाद्यभेदबोधप्रस
ङ्गात्तस्मात्स्वार्थनिष्ठविधेयताशालिबोधत्वस्याख्यातकार्यतावच्छेदकत्वादेव नोद्देश्यतावच्छेदकतयाख्यातार्थभानमिति तद्वारणायैतदुपादानं युक्तम् । यदप्यव्ययात्प्रथमैवेति मते स्वः पश्यतीत्यादौ कर्मत्वादिसंसर्गावरुद्धस्वर्गादिवारणाय कर्मत्वादिसंसर्गानवरुद्धत्वार्थकं वदति तदपि न । नरकं याति न स्वरित्यादावनन्वयापत्तेः । अत्र स्वःपदं कर्मत्वे रूढमित्यप्याहुः ।
नन्वेवं भावप्रत्ययस्थले भावनाविशेष्याभावात्संख्यान्वयो न स्यादत्राह – चैत्रे - णेति । चैत्रेण सुप्यत इत्यादी भावनाविशेष्यविरहादनन्वितैव संख्येत्यन्वयः । - भावनाविशेष्यविरहे हेतुत्रयमाह — प्रथमान्त इत्यादि । भावनाप्रकारकत्रोधे प्रथमान्तपदजन्योपस्थितेर्हेतुत्वमिति भावः । ननु भावाख्याताजन्ये तद्बोधे सा हेतुस्तजन्ये तु धातुजन्योपस्थितिस्तथास्त्वित्यत्राह - धात्वर्थस्येति । विशेषणतया