________________
१३ ग्रन्थः] आख्यातशक्तिवादः।
८३ मन्यते तथापि तादृशप्रतिबन्धकाभावे तथाविधप्रत्यक्षहेतुत्वसंबन्धकल्पनं गौरवाय नैयायिकानामित्याहुः । तदपि न विचारसह, गुरुशरीरपाकानुकूलकृत्याश्रयप्रकारकयोग्यताज्ञानत्वतथाविधकृत्याश्रयभेदज्ञानाभावत्वात्मकबाधाभावत्वादिरूपगुरुधर्मावच्छिन्नादिघटितशाब्दबोधसामग्र्यभावे अनन्तघटपटादिप्रत्यक्षकारणत्वसंबंधकल्पनेन वैयाकरणमत एव गौरवसंभवात् इत्यास्तां विस्तरः ॥ ६ ॥
(जय०)—नैयायिकोक्तसंख्याभिधानानभिधानेनोक्तानुक्तविभागे संख्याया: कर्तृकर्मसाधारण्येनान्वयापत्तिरेव मुख्यं बाधकमतस्तदुद्धरति-भावनाविशेष्य इत्यादि । धात्वर्थादिव्युदासाय विशेष्य इति । समानेति । तत्यदाकासासांनिध्यादेस्तेन पदेन सह क्लृप्तल्वात्तदेकार्थस्येवापरार्थस्याप्यन्वयस्तत्पदार्थ एवेति भावः । नन्वर्थभेदेनाकाङ्क्षादेः कार्यकारणभेदानेदं युक्तम् । संख्याबोधे आख्यातसमभिव्याहृतप्रथमान्तजन्योपस्थितिहेतुत्वे गौरवमाख्यातजन्यकर्जुपस्थितिहेतुत्वे लाघवादिति चेन्न । लाघवात्कृतिशक्तिसिद्धौ तद्गौरवस्य फलमुखत्वेनादोषत्वात् । भावेनान्वयविशेष्यत्वस्यैव संख्यान्वये तन्त्रत्वाच्च । नन्वस्य कादाचित्कस्य सार्वत्रिकनियतप्राक्कालीनत्वाभावः । एकदाऽपि भावनासंख्ययोर्बोधादिति चेत् सत्यम् । इत एवास्वरसान्नव्यनयान्ते वक्ष्यति 'तिङपस्थाध्यायाः संख्याया भावनाया इव प्रथमान्तोपस्थाध्येनैवान्वयः' इति । तन्नये चाख्यातार्थभावनासंख्यान्यवरबोधे कालेष्टसाधनत्वादतिरिक्ताख्यातार्थबोधसामग्र्यैक्यान्न गौरवार्ताऽपीति दिक् ।
भावनान्वयबोधसामग्रीमाह-भावनायाश्चेति । विशेषणत्वेन भावनान्वयो चात्वर्थादावपीति तत्र नेदं नियामकमतो विशेष्यत्वेनेति । कर्मत्वाचनवरुद्ध इति । चैत्रस्तण्डुल: पचतीत्यादौ कर्मत्वादिवृत्तिमत्तया गृहीतप्रथमान्तोपस्थायस्य तण्डुलादेर्वारणाय । न चात्रासाधुत्वात् न शाब्दधीः । तदज्ञानदशायां तत्संभवात् ! कर्मत्वादिविशेषणतयानुपस्थितेति तदर्थस्तेन ग्रामस्य गमनं भवतीयादौ षष्ठयर्थकर्मत्वविशेष्यत्वेनोपस्थितेऽप्यदोषः । आदिना धृतिः स्वाहा जायते इत्यादौ चतुर्थ्यर्थप्रथमान्तोपस्थाप्यस्य धृत्यादेर्नीलो घटोऽस्तीत्यादौ तीलादेः चन्द्र इव मुखं दृश्यत इत्यादौ चन्द्रतत्सादृश्यादेश्चैत्रो भुक्त्वा तिष्ठतीत्यादौ काद्यर्थस्य साधुत्वमात्रार्थप्रथमान्तीपस्थाप्यस्य वारणार्थ चतुर्थ्यर्थादिसंग्रहः । । च चन्द्र इव मुखमाहादयतीत्यादौ चन्द्रादावाल्हादकत्वान्वयो न स्यादिष्टा. त्तौ च हंसीव धवलश्चन्द्र इत्यादेर्दुष्टोपमात्वं न स्यादिति वाच्यम् । धर्मोपादाने पात्तधर्मस्यैवोत्सर्गतया इवार्थतया स्वविशिष्टाधारत्वस्य तत्त्वेन धात्वर्थभावमार्थ