________________
वादार्थसंग्रहः
[४ भागः ज्ञानत्वेन हेतुत्वकल्पनान्नानुपपत्तिरिति भावः। तथाविधकार्यकारणभावकल्पनाबीज स्वयमेव स्पष्टयति-अत इति । तथाविधकार्यकारणभावकल्पनादित्यर्थः । न प्रयोगा इति । न तादृशशाब्दबोधजनका इत्यर्थः ।
ननु भावनायाः कृतिरूपत्वेन तद्विशेष्ये संख्यांन्वयनियमस्वीकारे रथो गच्छतीत्यादौ कथं रथे संख्यान्वयः, भावनाविशेष्यत्वाभावादित्यत आह-भावना चेति । संख्याव्यतिरिक्ताख्यातार्थमात्रमेव उक्तनियमघटकीभूतभावनाशब्दार्थः । अचेतनानुरोधादिति । रथो गच्छतीत्यादौ रथादौ संख्यान्वयानुरोधादित्यर्थः । तथा चाख्यातस्य क;दिगतसंख्याभिधानानभिधानाभ्यामेव तृतीयादिनियमोपपत्तावाख्यातस्य कादिशक्तिमभ्युपगच्छता वैयाकरणानां मतमनादरणीयमेव लघुकृतिशक्तिवादिनैयायिकनये श्रद्दधानः सुधीभिरिति भाव: । ननु नैयायिकमते आख्यातपदचैत्रपदयोर्विभिन्नरूपेणैकर्मिबोधकत्वरूपसामानाधिकरण्यानुभवोऽनुपपन्नः । तथा चानुभवकृतविश्रामाणां कथं तन्मतमनुमतमित्यत आहविभिन्नाभ्यामित्यादि । तथा च तादृशानुभव एवासिद्ध इति भावः । अन्यादृशं त्विति । एकधर्मिनिष्ठभिन्नधर्मबोधकत्वरूपं सामानाधिकरण्यमित्यर्थः । . अत्र वैयाकरणमतानुयायिनः--आख्यातस्य कादिशक्तिकल्पने नैयायिकमतमपेक्ष्य लाघवसंभवात्तथैवोचितम् । तथाहि तन्मते कर्तृप्रकारकज्ञानाभावविषयकलौकिकप्रत्यक्षत्वावच्छिन्नं प्रति आख्यातपदनिरूपितशक्तिज्ञानादिघटितशाब्दसामग्र्याः प्रतिबन्धकत्वाकल्पनेऽपि तथाविधशाब्दबोधसामग्रीकाले कर्तृप्रकारकज्ञानाभावासत्त्वेन विषयासत्तयैव तथाविधलौकिकप्रत्यक्षानुत्पादेन तथाविधप्रतिबध्यप्रतिबन्धकभावकल्पनाभावप्रयुक्तलाघवमतिस्फुटमेव । नैयायिकमते तु तथाविधशाब्दबोधसामग्रीकाले तादृशज्ञानाभावरूपविषयसत्त्वेन विना तथाविधप्रतिबन्ध्यप्रतिबन्धकभावकल्पनं तथाविधप्रत्यक्षवारणमशक्यमिति तत्कल्पने महगौरवम् । न च वैयाकरणमते कृतिप्रकारकज्ञानाभावप्रत्यक्षं प्रति तथाविधशाब्दसामग्र्याः प्रतिबन्धकत्वकल्पनावश्यकतया क नैयायिकमतमपेक्ष्य लाघवावकाशः ? नैयायिकमते तथाविधकल्पनाभावादिति वाच्यम् । वैयाकरणमते कर्तुपस्थितिकाले कृतिप्रकारकज्ञानसत्वस्यावश्यकत्वेन तथाविधशाब्दसामग्रीकाले विषयासत्तयैव कृतिप्रकारकज्ञानाभावप्रत्यक्षवारणसंभवेन तथाविधप्रतिबध्यप्रतिबन्धकभावाकल्पनयोपदर्शितलाघवस्याक्षुण्णत्वात् । यदि च नवीनोच्छृखलरीत्या क्लसेन निर्वाहे तत्र तथाविधप्रतिबन्धकाभावहेतुत्वं नाधिकमिति
१ कर्तृत्वप्र' इति पाठः ।