________________
१३ ग्रन्थः] आख्यातशक्तिवादः ।
ननु भावाख्यातस्थले संख्याभावनयोरनन्वये भावतिङ्नैरर्थक्यमित्यत आह-- एवं चेति । भावाख्यातस्थले संख्याभावनयोरन्वये चेत्यर्थः । यथायथमित्यादि । वर्तमानत्वं लङर्थः, इष्टसाधनत्वं लिङर्थः । इष्टसाधनत्यादिकमित्यत्रादिपदमतीतत्वकृतिसाध्यत्वाद्यर्थकम् । ननु लिङर्थेष्टसाधनत्वादेर्लुङर्थातीतत्वादेः कुत्रान्वयस्तत्राह—तच्चेत्यादि । लिङर्थेष्टसाधनत्वं लुर्थांतीतत्वादिकं चेत्यर्थः । ननु तथान्वये मानाभाव इत्यत आह.-तथैवेति । लिङादिसमभिव्याहारस्थले धात्वर्थविशेष्यकेष्टसाधनत्वप्रकारकबोधस्यैवानुभवसिद्धत्वादित्यर्थः । इदमत्रावधेयं---चैत्रेण सुप्यत इत्यादौ वृत्तित्वं तृतीयार्थः । वर्तमानत्वं भावतिर्थः । धात्वर्थः स्वापः । तथा च चैत्रवृत्तिवर्तमानः स्वाप इत्यन्वयबोधः । एवं चैत्रेण सुप्यतेत्यादौ भावलिङ इष्टसाधनत्वादिकमर्थः । तथा च चैत्रवृत्तिः स्वाप इष्टसाधनं कृतिसाध्यश्चेत्याकारकान्वयबोधः । एवमन्यत्रापि सूक्ष्मदर्शिभिश्चिन्तनीयमिति । तदबोधकानामिति वर्तमानत्वाद्यबोधकानामित्यर्थः ।
ननु भावनायाः प्रथमान्तपदोपस्थाप्ये केन संबन्धेनान्वय: ? न तावदाश्रयतासंबन्धेन, चैत्रेण पच्यते तण्डुल इत्यादौ तण्डुले आख्यातार्थकृतिरूपाया:. भावनाया. बाधितत्वादित्यत आह-भावनायाश्चेति । माश्रितत्वेन आश्रयतासंबन्धेनेत्यर्थः । अन्यथेति वक्ष्यमाणपरंपरयेत्यर्थः । तथाच साक्षात्परंपरया वा भावनाविशेष्य एव संख्याया अन्वयनियम इति भावः । नच संख्याद्यति-. रिक्ताख्यातार्थमात्रस्य भावनापदशक्यतया कर्माख्यातस्थले कर्मत्वस्याप्याख्यातार्थतया साक्षाद्भावनाविशेष्य एव संख्यान्वयनियमोऽस्तु अलं तत्र परम्परया वेत्यस्य निवेशनेनेति वाच्यम् । प्राचीनमते कर्माख्यातस्यापि कृत्यर्थकतया कर्मत्वार्थकत्वाभावेन कर्मत्वस्य भावनात्वविरहादुपदर्शितानुपपत्तेरभावादिति । ननु यथा चैत्रेण पच्यते तण्डुल इत्यत्र नैयायिकमते परम्परया कर्मणि कृतेरन्वय स्तथा चैत्रेण पचति तण्डुल इत्यत्रापि कथं नान्वयबोधः । एवं नैयायिकमते चैत्रः पचति तण्डुलमित्यत्रेव चैत्रः पच्यते तण्डुलमित्यत्रापि आश्रयतासंबन्धेन कृतेरन्वयबोधापत्तिरेवं चैत्रः पक्ष्यते तण्डुल इत्यत्र वा कथं तन्मते एकदा कर्तृकर्मणोर्ययोक्तरीत्या कृतेर्नान्वयः ? उपदर्शितस्थलेषु सर्वत्राख्यातपदात्कृतेरुपस्थितिसत्त्वादित्याशङ्कामपाकर्तुमाह—तवेति । वैयाकरणस्येत्यर्थः। तथान्वयबोधकत्वमिति । कर्तृकर्मणोः कृतेर्बोधकत्वमित्यर्थः । तथा च वैयाकरणमते तादृशतादृशशाब्दबुद्धित्वावच्छिन्नं प्रति यादृश यादृशानुपूर्वीज्ञानत्वेन कारणता नैयायिकमतेऽपि तादृशतादृशशाब्दबुद्धित्वावच्छिन्नं प्रति तादृशतादृशानुपूर्वी--