________________
वादार्थसंग्रहः
[४ भागः तत्रैवेति । भावनाविशेष्ये कर्तरि कर्मणि चेत्यर्थः । ननु भावनाविशेष्ये संख्यान्वयस्वीकारे चैत्रेण सुप्यत इत्यादौ संख्यानन्वयापत्तिः, तत्र भावनाविशेष्यविरहादतस्तत्रेष्टापत्तिमाह-चैत्रेण सुप्यत इत्यादिना । प्रथमान्तपदाभावादित्यस्य भावनाविशेष्यविरहादित्यग्रिमतनेनान्वयः । ननु चैत्रैण सुप्यत इ. त्यादौ धात्वर्य एव भावना विशेष्यत्वेनान्वेतु, तथा च तत्रैव संख्यान्वयसंभवे किमर्थमुपदर्शितस्थले संख्यानन्वये इष्टापत्तिरित्यत आह-धात्वर्थस्येति । व्युत्पनत्वादिति । तथा च भावनायां विशेषणत्वेनैव धात्वर्थान्वय इति व्युत्पत्तिसिद्धस्य चैत्रः स्वपितीत्यादौ स्वापादिनिष्ठप्रकारतानिरूपितविशेष्यतासंबन्धेन तथाविधवाक्यजन्यशाब्दबुद्धित्वावच्छिन्नं प्रति आख्यातपदजन्यभावनोपस्थिते: विशेष्यतासंबन्धेन हेतुत्वस्य कल्पनात् , चैत्रेण सुप्यत इत्यादेः स्वापादौ भावनाया: विशेष्यत्वेन अन्वयाबोधकत्वमिति भावः । ननु भावनायां विशेषणत्वेनैव धात्वर्थान्वय इति व्युत्पत्ते वाख्यातस्थले संकोचः कल्पनीयः । भावाख्यातस्थले च धात्वर्थस्य भावनाविशेष्यत्वेनान्वय इति व्युत्पत्त्यन्तरमङ्गीकृत्य कार्यकारणभावान्तरं कल्पयित्वा उपदर्शितस्थले धात्वर्थविशेष्यकभावनाप्रकारकबोधाङ्गीकारे क्षतिविरहादित्यत आह-भावनाया बाधितत्वाञ्चेति । चैत्रेण सुप्यत इत्यादी आख्यातार्थाश्रयत्वरूपाया भावनायाः स्वापे बाधेन तथान्वयासंभवादित्यर्थः । ननु निरूपकत्वसंबन्धेनैव तत्र तस्यान्वयः संभवतीति चेत् , तथा सति चैत्रेण सुप्यते न मैत्रेणेत्यादौ नत्रर्थानन्वयापत्तेः । न च निरूपकतासंबन्धावच्छिन्नप्रतियोगिताकाश्रयत्वाभावस्य स्वापेऽन्वयसंभवान्न तत्र नञर्थान्वयानुपपत्तिरिति वाच्यम् । वृत्त्यनियामकसंबन्धस्याभावप्रतियोगितानवच्छेदकतया निरूपकतासंचन्धावच्छिन्नप्रयितोगिताकाश्रयत्वाभावस्यालीकतया तत्र तदन्वयासंभवेनोपद. र्शितानुपपत्तेर्दुरित्वात् । चैत्रेण सुप्यत इत्यादौ एककालीनत्वादिसंबन्धेन स्वापे आश्रयत्वस्यान्वय इति नाशङ्कास्पदमपि । तत्र तेन संबन्धेन आश्रयत्वस्यान्वये निराकाङ्क्षत्वात् । मैत्रस्य जाग्रद्दशायां चैत्रवृत्त्याश्रयत्वमादायापि मैत्रेण सुप्यत इति प्रयोगप्रसङ्गाचेति । ननु तत्रैकवचनार्थसंख्याया अनन्वये एकवचनं व्यर्थमित्यत आह-एकवचनं त्वित्यादि। अत एव भावाख्यातस्थले एकवचनस्य साधुत्वादेवेत्यर्थः । औत्सर्गिकमिति प्रथमोपस्थितमित्यर्थः। अन्यथा तत्र -स्वापादौ संख्याया अन्वयस्वीकारे स्वापद्वित्वबहुत्वे भावाख्यातस्थले द्विवचनबहुवचनापत्तेः तत्र चेष्टापत्तिर्न संभवति, अभियुक्तस्मरणविरुद्धत्वादिति भावः ।
. १ पुस्तकत्रये ' इत्यादौ स्वापादेर्भावनाविशेष्यत्वेनान्वये बाधक (स्व) मिति भावः' । इति पाठः।