________________
.७९
१३ ग्रन्थः] आख्यातशक्तिवादः । ब्बुद्धित्वावच्छिन्नं प्रति प्रथमान्तपदजन्योपस्थितेर्विशेप्यतासंबन्धेन हेतुत्वं कल्प्यते नतु तत्र कर्मत्वाद्यनवरुद्धत्वमपि निवेश्यते तस्य निर्वचनाशक्यत्वात् । न च प्रकृतशाब्दबोधे इतराविशेषणत्वमेव तत् , प्रकृतत्वं च प्रथमान्ततत्तत्पदजन्यत्वमिति वाच्यम् । चन्द्रवन्मुखं, चन्द्रो राजते, इत्यादिवाक्यद्वयजन्यसमूहालम्बनबोधे चन्द्रेभावनान्वयानुपपत्तेः । न च प्रथमान्तपदजन्यशाब्दबोधे विशेष्यत्वाभावकत्वे सति तथाविधशाब्दबोधे इतराविशेषणत्वमेव तदिति वाच्यम् । तथा सति एतादृशधर्मस्योपदर्शितकारणतावच्छेदककोटौ निवेशे परस्परं विशेष्यविशेषणभावे विनिगमनाविरहेण कार्यकारणभावबाहुल्यस्य दुष्परिहरत्वात् तथाविधान्वयबुद्धिं प्रति स्वीयविशेष्यत्वाभावविशिष्टप्रकारतासंबन्धेन शाब्दबोधस्यैव कार्यकालवृत्तितया प्रतिबन्धकत्वकल्पनमुचितम् । तादृशप्रतिबन्धकाभावादिकारणत्वकल्पिका व्युत्पत्तिः कर्मत्वाचनवरुद्ध इत्यादिग्रन्थेन दर्शिता । तादृशव्युत्पत्ती तथाविधविशेषणानुपादाने तादृशप्रतिबन्धकाभावस्य हेतुत्वाप्राप्त्या चन्द्रवन्मुखमस्तीत्यादौ चन्द्रादिपदार्थे भावनायाः अन्वयप्रसङ्ग इति तत्र तदुपादानमित्यपि परास्तम् । उपदर्शितप्रतिबन्धकाभावस्य हेतुत्वे पदजन्यपदार्थोपस्थितिकारणतावच्छेदककोटौ पदांशे प्रथमान्तत्वविशेषणोपादानस्य व्यर्थतया तत्र तदुपादानसंपादकतथाविशेषणस्य व्युत्पत्ती निवेशे प्रयोजनाभावादिति चेन्मैवम् । तत्र तदनिवेशे द्वितीयाविभक्त्यन्ताद्यनेकपदेषु तथाविधोपस्थितिनिष्ठकारणतावच्छेदकत्वकल्पने गौरवात् । अस्मन्मते प्रथमान्तपद एव तत्कल्पनमिति लाधवस्यैवोपदर्शितकारणतावच्छेदककोटौ पदांशे प्रथमान्तत्वनिवेशनसंपादकतया उपदर्शितव्युत्पत्तावपि तादृशविशेषणनिवेशस्यावश्यकत्वात् । अन्यथा तदनुसारेण उपदर्शितविशेषणघटितकार्यकारणभावकल्पनाया अयोगादिति । ननु भावनाया इत्यादि ग्रन्थस्य उपदर्शितरीत्या व्युत्पत्तिपरत्वे तथैवेत्यादिग्रन्थस्य कोऽर्थ इति चेत्तमवेहि-तथैवेति । तादृशव्युत्पत्त्यनुसारेण तत्तद्रूपेणैवेत्यर्थः । तथाविधप्रतिबन्धकाभावत्वतादृशपदजन्यपदार्थोपस्थितित्वादिनैवेति तु निर्गलितार्थः । साकाङ्क्षत्वादिति । कार्यकारणभावस्याकाङ्क्षाविषयत्वात्कल्पनीयत्व. मिति यावत् । तथा चोक्तव्युत्पत्त्यनुसारेण उपदर्शितकार्यकारणभावं कल्पयित्वा भावनाया अन्वयनियम उपपादनीय इति भावः । उपदर्शितव्युत्पत्तौ किं मानमिति तु नाशङ्कनीयम् । तत्रानुभवस्यैव शरणीकरणीयत्वात् । अन्यथा व्युत्प. त्तिमात्रस्यैवोच्छेदः स्यादिति कृतं पल्लवितेन ।
१ भावेन कामचारेणेति पाठः।