________________
७८
वादार्थसंग्रहः
[ ४ भाग: “यानामेकार्थान्वयित्वनियमोऽप्रयोजकत्वादुपेक्षणीय इति चेन्मैवम् । तथाविधनियमस्वीकारे लाघवस्यैव प्रयोजकत्वसंभवात् । तथाहि आख्यातपदोपस्थाभावनारूपैकार्थस्यान्वयबोधार्थमवश्यं पदार्थान्तरचैत्राद्युपस्थितिकल्पनमावश्यकम् | अन्यथा पदार्थान्तरस्य चेत्रादेः पदजन्योपस्थित्यभावे शाब्दबोधेऽभानापत्त्या तत्र भावनान्वयस्यानुपपत्तेः । तथा संख्याया अपि चैत्राद्यन्वयस्वी - कारे पदार्थान्तरोपस्थित्यन्तराकल्पनप्रयुक्तलाघवमतिस्फुटमेवेत्युक्तनियमाभ्युपगमः । न चोक्तनियमाभ्युपगमे पचेदित्यादौ कृतिसाध्यत्वान्वितपाके संख्यान्वयापत्तिरिति वाच्यम् । आख्यातपदज्ञानजन्य संख्या प्रकारक शाब्दबुद्धित्वावच्छिन्नं प्रति चैत्रादिपदजन्याख्यातपदार्थभावनाविशेष्योपस्थिते: विशेष्यतासंबन्धेन हेतुत्वस्य कल्पनीयतयोपदर्शितापत्तेरभावात् । न च तथाप्युपदर्शितनियममङ्गप्रसङ्ग इति वाच्यम् । अन्यथानुपपत्त्या तादृशनियमे कृतिसाध्यत्वेष्टसाधनत्वाद्यतिरिक्तत्वेनैकपदोपस्थाप्यस्य विशेषणीयत्वादिति सारम् ।
1
ननु भावनैव कुत्रान्वेति कुत्र नेत्यत्र किं नियामकं तत्राह - भावनायाश्चेत्यादि । अन्वययोग्य इति । तथाविधान्वयः कार्यकारणभावसिद्ध इत्यर्थः । तथा च कर्मत्वाद्यनवरुद्धप्रथमान्तपदोपस्थाप्ये एवाख्यातार्थभावनाया विशेव्यत्वेनान्वयोग्यत्वस्य कार्यकारणभावसिद्धतया अन्यत्र भावनाया नान्वय इति भावः । ननु कीदृशकार्यकारणभावसिद्धस्तथान्वयस्तत्राह — तथैवेति । भावनानिष्ठ प्रकारतानिरूपितविशेष्यतासंबन्धेनाख्यातपदज्ञानजन्यशाब्दबुद्धित्वावच्छिन्नं प्रति विशेष्यतासंबन्धेन [ आख्यातपदसमभिव्याहृत प्रथमान्तनामपदज्ञानजन्यकर्मत्वाद्यनवरुद्धार्थविशेष्यकोपस्थितित्वेनेत्यर्थः । साकाङ्क्षत्वादिति । शाब्दबोधपदजन्योपस्थित्योः कार्यकारणभावकल्पनादित्यर्थः । तथा च तादृशकार्यकारणभावबलात् तथाविधप्रथमान्तपदोपस्थाप्ये भावनाया विशेष्यत्वेनान्वय इति भावः । ननूपदर्शितकार्यकारणभावे कारणतावच्छेदककोटौ कर्मत्वाद्यनवरुद्धत्वं विशेषणं व्यर्थम् । यदि च कर्मत्वाद्यनवरुद्धत्वं विशेषणमनिवेश्य तथाविधान्वयबुद्धिं प्रति प्रथमान्तपदजन्योपस्थितेर्हेतुत्वे चन्द्र इव मुखमस्तीत्यादौ प्रथमान्तपदोपस्थितिविषये चन्द्रे सादृश्ये च भावनान्वयप्रसङ्गस्तदा प्रकृतशाब्दबोधे इतराविशेषणत्वार्थकं कर्मत्वाद्यनवरुद्धत्वं तत्र कारणतावच्छेदककोटौ निवेशनीयमिति विभाव्यते, तथापि तत्र पदे प्रथमान्तत्वविशेषणं व्यर्थमेव, द्वितीयान्तपदजन्योपस्थितिविषयीभूतार्थस्य शाब्दबोधे कर्मत्वविशेषणतयेतराविशेषणत्वविरहादेव तत्र भावनाया अन्वयबोधापत्तिवारणसंभवात् ।
एतेन भावनानिष्ठप्रकारतानिरूपित विशेष्यतासंबन्धेन आख्यातपदज्ञानजन्यशा