________________
७७
१३ ग्रन्थः] आख्यातशक्तिवादः। तण्डुल इत्यादौ भावनायाश्चैत्रवृत्तिपाककृतेराश्रयत्वस्य तण्डुलादौ बाधेन कथं तत्र तदन्वयस्तथाच तत्र भावनाविशेष्यत्व विरहात् संख्यान्वयो न स्यादित्यत आहकर्मणि पुनरिति । कर्मप्रत्ययस्थले तण्डुलादावित्यर्थः । अन्यथा वक्ष्यमाण. प्रकारेण । ननु पचतीतिपरस्मैपदाख्यातस्य यदा कर्तृत्वबोधे तात्पर्यविरहः, किंतु कर्मत्वे तदा तण्डुलस्यैव भावनाविशेष्यतया संख्यान्वयित्वेन कर्तृ-संख्याया अनु. तत्वात् तृतीयापत्तिः। एवं पच्यत इत्यादौ कर्माख्यातस्य यदा कर्मत्वबोधे तात्पर्य नास्ति किंतु कर्तृत्वबोधे तदा चैत्रस्यैव भावनान्वयितया तण्डुलादेर्भावनाविशेध्यत्वविरहितया संख्यानन्वयित्वे कर्मसंख्याया अनुक्तत्वे द्वितीयापत्या तण्डुलं पच्यत इति प्रयोगापत्तिरित्यत आह-तवेति । वैयाकरणस्येत्यर्थः । तथाच भवन्मते यथा परस्मैपदेन नियमतः कर्तुरभिधानमिति तत्र न तृतीया, एवं चैत्रेण पच्यत इत्यादौ कर्मबोधकत्वमेव न तु कर्तृबोधकत्वमिति तत्र न द्वितीया, तथा ममापि परस्मैपदेन कर्तत्वं बोध्यते न तु कर्मत्वं, पच्यत इत्यादौ चा. ख्यातेन कर्मत्वं बोध्यते न तु कर्तत्वमिति नोक्तातिप्रसङ्ग इत्यर्थः । ननु पचति पच्यत इत्यादावसाधुत्वाकर्तृत्व-कर्मत्वबोधो मास्तु, पक्ष्यत इत्यादावाख्यातस्योभयत्र साधुत्वात् एकदा कर्तृत्व-कर्मत्वबोधमादाय द्वितीया-तृतीययोरनुपपत्तिरित्यत आह-पक्ष्यत इति । तथाच पक्ष्यत इत्यादावसाधुतया अन्यथा वा यथा नैकदा कर्त-कर्मोभयबोधकता तथा ममापीति नातिप्रसङ्ग इति भावः ।..
ननु भावना कृतिस्तथाच रथोगच्छतीत्यादौ भावनाविरहेण तद्विशेष्याप्रसि. ध्या संख्यान्वयो न स्यादित्यत आह-भावना चेति । व्यापारेति । मात्रपदं कृत्स्नार्थकं, तथाच रथोगच्छतीत्यादौ धात्वर्थानुकूलव्यापार एव भावनापदार्थ इति नोक्तदोष इति भावः । अचेतनानुरोधात् रथो गच्छतीत्यायचेतनविशेष्यकबोधानुरोधात् । ननु कर्तरि कर्मणि च यदि नाख्यातस्य शक्तिस्तदा चैत्रपदाख्यातपदयोर्विभिन्नरूपाभ्यामेकथर्मिशक्तत्वरूपसामानाधिकरण्यं न स्यादित्यत आह-भिन्नाभ्यामिति । एकर्मिशक्तत्वमप्रसिद्धमिति नैयायिकैरनभ्युपगमादिति भावः । संभवदिति, मिनाभ्यामेकधर्मिविशेष्यकशब्दबोध. जनकत्वलक्षणसामानाधिकरण्यं न वार्यते न नैयायिकैरस्माभिरपि निवार्यते कृति-चैत्रत्वाभ्यां भिनाभ्यामाख्यातपद-चैत्रपदाभ्यामेकस्य चैत्रस्य शाब्दबोधजननादिति भावः ॥६॥
(रघु०) नैयायिकः प्रत्यवतिष्ठते-अत्र वदन्तीति । नैयायिकन्ये लाघवसिद्धकृतित्वादिशक्यतावच्छेदककाख्यातपदेनोक्तानुक्तविभागमूलीभूतकर्तृकर्मः । गतसंख्याभिधानानभिधानविघातकं कर्तृकर्मसाधारण्येनान्वयबोधापादनं निराकर्तुमाह-भावनाविशेष्य इति । समानपदोपात्तत्वेनेति । एकपदोपस्थाप्यत्वेने त्ययः । एकान्वयित्वस्य बाधकं विना नियमसिद्धत्वादित्यर्थः । नन्वेकपदोपस्था.