SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ७६ वादार्थसंग्रहः [४ भागः युक्तिंच उपष्टम्भकस्थलेन दर्शयति-अतएवेति । भावाख्यातस्थले संख्यानन्वयादेवेत्यर्थः । स्वापस्य द्वित्व-बहुत्वेऽपीति तथाच यद्येकवचनभावाख्यातस्य एकत्वसंख्याबोधकत्वं तदा तुल्यन्यायतया स्वापादिगतद्वित्वादितात्पर्यसत्त्वे भावस्थले द्विवचन-बहुवचनयोरापत्तिः । यदि च भावस्थले धात्वर्थगतद्विस्व-त्रित्वादिसंख्यायां कदापि कस्यापि न तात्पर्यमिति न तत्र द्विवचनादीत्युच्यते तदा एकत्वसंख्यायामपि तथैवेत्येकवचनस्याप्यनुपपत्तिरिति बाधकमित्यर्थः। औत्सर्गिकमिति गणनक्रमेण प्रथमोपस्थितमित्यर्थः । तथाच साधुत्वार्थ द्विवचनादेः संभवेऽपि विलम्बोपस्थितिकत्वान्न तस्य साधुत्वनियामकत्वं कल्प्यते किंतु शीघ्रोपस्थितिकतयैकवचनस्यैव तथात्वमिति युक्तिरित्यर्थः । ननु भावाख्यातस्थले यदि कृतिर्व्यापारो वा नार्थस्तदा भावाव्यातस्य कोऽर्थः कुत्र वा भावाख्यातेन वर्तमानत्वादिबोध इत्याकाङ्क्षायामाह-अतएवेति । भावाख्यातानां संख्याबोधकत्वविरहादेवेत्यर्थः । यथायथमिति भावलस्थले वर्तमानत्वं भावविधिस्थले इष्टसाधनत्वंचेत्यर्थः । तच्च वर्तमानत्वादिकं च । ननु कृतौ व्यापारे वा तदन्वयोऽनुभवसिद्धो न तु धात्वर्थेऽपीत्यत आह-तथैवेति । भावाख्यातस्थले धात्वर्थगतत्वेनैव वर्तमानत्वेष्टसाधनत्वप्रत्ययादित्यर्थः । भावाख्यातादिष्टसाधनताप्रतीतिस्तु चैत्रेण पच्यतेत्यादौ विधिभावस्थले वोहव्या । यदि च धात्वर्थे वर्तमानत्वादिबोधो नाङ्गीक्रियते तदा चैत्रोजानातीत्यादौ धात्वर्थज्ञानादिगतत्वेन वर्तमानत्वबोधानुपपत्तिरिति भावः । यद्यपीष्टसाधनत्वं धात्वर्थ एव सर्वत्र मणिकारमते भासते इति तदभिधानमसंगतं, तथापि कृतीष्टसाधनतावादिमतमाश्रित्य इदमुक्तं, दृष्टान्तार्थं तदुक्तमिति मान्याः । ननु यथा पाक इत्यादौ घनादीनां प्रयोगसाधुतामात्रं प्रयोजनं न तु वतमानत्वादिवोधकत्वं तथा भावाख्यातानामप्यस्तु तदेव प्रयोजनं न तु वर्तमानत्वादिबोधकतापीत्यत आह-तदबोधकानामिति । वर्तमानत्वाधबोधकानामित्यर्थः। तुशब्दोऽवधारणार्थः । तथाच घशादिस्थले वर्तमानत्वानुभवाभावेन वर्तमानत्वबोधकत्वाभावः । भावाख्यातस्थले वर्तमानत्ववोधस्यानुभविकत्वेन न तथेति दृष्टान्तदा न्तिकवैषम्यमित्यर्थः । ___ ननु चैत्रः पचतीत्यादौ प्रथमान्तपदोपस्थाप्ये येन केनापि संबन्धनान्वयस्वी. कारे अपचत्यपि मैत्रादौ कालिकसंबन्धादिना पाकानुकूलकृतिमत्वात् पचतीत्यादिप्रयोगापत्तिरेवं तादात्म्येन पाकानुकूलकृतेः स्वात्मकगुणे सत्त्वाद्गुणः पचतीति प्रयोगापत्तिरित्यत आह-भावनायाश्चेति । तथाच चैत्रः पचतीत्यादौ यदि चैत्रपदार्थः शरीरं तदा अवच्छेदकताख्याश्रयतासंबन्धेन कृतेरन्वयः, यदि च शरीरविशेषावच्छिन्नात्मा तदर्थस्तदा समवायाख्याश्रयतासंबन्धन तत्र तदन्वय इति नियमः स्वीकार्यो न तु येन केनापि संबन्धन तदन्वयः स्वीकतव्य इति नोक्तदोप इति भावः । एवमन्यत्रापि बोध्यम् । नन्वेवं चैत्रेण पच्यते
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy