________________
१३ ग्रन्थः ]
आख्यातशक्तिवादः ।
च्योत्तरमाह-चैत्रेणेति । ननु चैत्रेण सुप्यत इत्यत्र प्रथमान्तपदाभावेऽप्यबाधेन चैत्रवृत्तिचक्षुर्निमीलनाद्यनुकूलकृतेर्जन्यतासंबन्धेन स्वापे धात्वर्थेऽन्वयोऽस्तु । तथाच स एव भावनाविशेष्यतया संख्यान्वयी भवितुमर्हत्येवेत्यत आह-गगनेनेति । अत्र च गगनवृत्तिस्थितिरित्यर्थः तथाच पूर्ववदत्र भावनान्वयो धात्वर्थे न संभवति धात्वर्थस्य नित्यत्वेन भावनान्वयस्य बाधितत्वादित्यगत्या संख्यानन्वय एव स्वीक्रियत इति भावः । ननु गगनेन स्थीयत इत्यत्रापि प्रथमान्तपदाभावेऽपि जानातीत्यादाविवाश्रयत्वात्मिकाया भावनाया एव विशेषणत्वेन धात्वर्थेऽन्योऽस्तु । तथाच गगनवृत्त्याश्रयतानिरूपिका स्थितिरित्यन्वये भावना विशेष्यीभूतायां स्थितावेव संख्यान्वयः स्यादित्यत आह- धात्वर्थस्येति । गगनं तिष्ठतीत्यादावाश्रयत्वरूपभावनाविशेषणत्वेनैव थात्वर्थस्थित्यन्वयस्य व्युत्पत्तिसिद्धतया तद्भङ्गप्रसङ्गेनाश्रयत्व विशेष्यतया धात्वर्थान्त्रयो न संभवतीत्यर्थः ।
ननु विनिगमनाविरहेण उभयत्र भिन्नभिन्ना व्युत्पत्तिः कल्पनीया, अन्यथा भावाख्यातस्थलीयव्युत्पत्तिविरोधेन गगनं तिष्ठतीत्यादावन्वयोऽव्युत्पन्न इत्यस्यापि वक्तुं शक्यत्वादित्यत आह-भावनाया इति । गगनटच्याश्रयत्वरूपभावनायास्तद्वृत्तिस्थितौ बाधेनान्वयासंभवादित्यर्थः । यद्यपि निरूपकतासंबन्धेन गगननृत्याश्रयत्वं तद्वृत्तिस्थितावबाधितमेव तथापि प्रलये गगनेन स्थीयते न नष्टघटेन इत्यादौ नमर्थान्वयानुपपत्त्या निरूपकत्वसंबन्धेन तदन्वयो न संभवति निरूपकत्वस्य नृत्यनियामकतया प्रतियोगितावच्छेदकसंबन्धत्व विरदेण तत्संबन्धावच्छिन्नप्रतियोगिताक-घटवृत्त्याश्रयत्वाभावबोधस्यासंभवादित्यत्र तात्पर्यम् । न च न नष्टघटेनेत्यतो घटटच्त्याश्रयताया आश्रयत्वसंबन्धावच्छिन्नप्रतियोगिताकाभाव एव प्रतीयतामिति नोक्तदोष दति वाच्यम् । तथा सति न घटेनेत्यादिवत् न गंगनेन स्थीयते इत्यादेरपि प्रसङ्गात्, गगनवृत्त्याश्रयताया आश्रयतासंबन्धेनाभावस्य गगनवृत्तिस्थितौ सत्त्वादित्यलमधिकेनेति दिक् ।
ननु यदि भावाख्यातानां (न) संख्याबोधकत्वं तदा गगनेन स्थीयत इत्यादौ वर्तमानत्वाद्यन्वये तात्पर्याभावस्थले भावाख्यातप्रयोग एव न स्यात् प्रयोज - नाभावात् । तेषां संख्याबोधकत्वनियमे च नियमेन संख्याबोधार्थमेव तत्तत्प्रयोग उपपद्यते इत्यत आह-एकवचनं त्विति । वर्तमानत्वादितात्पर्याभावदशायामपि गगनेन स्थीयते इत्यादावाख्यातैकवचनं त्वित्यर्थः । साधुत्वार्थं तत्रत्यधातोः साधुत्वसंपत्तये । भावाख्यातसमभिव्याहारं विना तत्र धातोरसाधुत्वाच्या अन्वयाबोधकत्वप्रसङ्गात् भावाख्यातप्रयोगः सप्रयोजन इत्यर्थः । न चाबोधकपदसमभिव्याहारो न साधुत्वसंपादकस्तथा सति [आनयनादीनां ? ] स्वार्थकविकरणादीनां समभिव्याहारस्यापि साधुत्वसंपादकत्वाभावप्रसङ्गादिति भावः । भावाख्यातस्य संख्याबोधकत्वे बाधकं भावाख्यातस्यैकवचनतायां
७५