________________
७२
वादार्थसंग्रहः [४ भागः नानुरोधात् । भिन्नाभ्यां रूपाभ्यामेकधर्मिबोधकत्वलक्षणं सामानाधिकरण्यमप्रसिहं संभवदन्यादृशं तु न वार्यते ॥६॥ व्यापारत्वं धर्मत्वम् । अचेतनेति, अग्निः पचतीत्यादावचेतनेऽपि संख्यान्वयाउरोधादित्यर्थः । व्यापारेत्युपलक्षणम्, आश्रयत्व-प्रतियोगित्वमपीति बोध्यम् । शब्दैक्यस्यानुपादेयत्वात् । तेन चैत्रोजानाति घटो नश्यतीत्यादेरपि संग्रहः । __ केचित्तु व्यापारमात्रोपलक्षिकेत्यस्य कालेष्टसाधनत्वाचतिरिक्ताख्यातार्थोपल. क्षणमित्यर्थ इत्याहुः । तदसत् । तथा सति कर्माख्यातार्थस्य फलस्यापि भावनात्वेनाग्रिमग्रन्थासंगतः।
वैयाकरणेनाख्यातस्य कर्तृकर्मशक्तौ चैत्रादिपदाख्यातादिपदयोः सामानाधिकरण्यान्यथानुपपत्ति प्रमाणीकृतां निराकरोति-भिन्नाभ्यामिति । एकथर्मिबोधकत्वमात्रस्य सामानाधिकरण्यपदार्थत्वे कलसादिपदेऽपि घटादिपदसामानाधिकरण्यव्यवहारापत्तिरतः भिन्नाभ्यां रूपाभ्यामिति उक्तम् । घटोऽस्ति नीलमानयेति वाक्यद्वयस्थलीयनीलपद-घटपदयोरपि सामानाधिकरण्यव्यवहारस्येष्टत्वात् । एतच्च सामानाधिकरण्यपदार्थतया अभिहितं न तु कादिशक्तिसाधकहेतुघटकं वैयादित्यवधेयम् । अन्यादृशमिति । आख्यातपदचैत्रादिपदयोरेकाधिकरणवृत्तिवरूपमित्यर्थः । न वार्यते, कर्तृत्वादिशक्त्यापि न निवार्यते, कर्तृत्वादिशक्त्याप्युपपद्यत इति यावत् ।
केचित्तु-अन्यादृशं, यत्राख्यातेन कृतिर्बोध्यते तत्र चैत्रादिपदेनापि चैत्रादिकं बोध्यते इत्येवंरूपमित्यर्थ इत्याहुः ॥ ६ ॥
(राम०) ननु कर्तृसंख्याभिधानानभिधाने प्रथमा-तृतीयानियामके कर्मसंख्याभिधानानभिधाने च प्रथमा-द्वितीयानियामके वक्तव्ये । संख्यान्वये च भावनाविशेष्यत्वं नियामकमिति कर्तृ-कर्मसाधारण्येन बोधस्य दुर्वारत्वादित्युक्तदोषविरहस्तथाच कर्तृकर्मणोरवाच्यत्वेऽपि चैत्रस्तण्डुलः पच्यते इत्यादिप्रयोगो न भवतीत्याशयेन समाधत्ते-अत्र वदन्तीत्यादि । भावनेति । भावना च १ क्वचियापारः २ कुत्रचित् कृतिः ३ क्वचिदाश्रयत्वं ४ कुत्रचिच्च प्रतियोगित्वम् । आयं प्राचां मते रथोगच्छतीत्यादौ, द्वितीयं चैत्रः पचतीत्यादौ, तृतीयं चैत्रो जानातीत्यादौ चतुर्थं घटो नश्यतीत्यादौ । तथाचाख्यातार्थव्यापारादविशेष्यत्वनान्वयिन्येवाख्यातार्थसंख्यान्वय इति फलितम् । ननु भावनाविशेष्यभिन्न एव स्वार्थसंख्यान्वयः कथं न भवतीत्यत आह-समानेति । कृति-संख्ययोर्विभिन्नशक्त्यैकपदोपात्तत्वेनैकधर्मिण्यन्वयस्य साकाङ्कत्वादित्यर्थः, शक्तिभेदसूचनायैकपदं त्यक्त्वा समानपदमुक्तम् । ननु समानपदोपात्तान्वयित्वं स्वबोधकपदप्रतिपाद्यार्थान्तरान्वयित्वमाख्यातार्थसंख्यान्वये नियामकमित्यायातं, तथाचैतदपे