________________
०१.
१३ ग्रन्थः ] आख्यातशक्तिवादः ।
भावनायाश्च कर्तरि आश्रयत्वेन कर्मणि पुनरन्यथान्वयः, तव कर्तृ-कर्माभिधायित्ववचास्माकमपि तथान्वयबोधकत्वम् । अतो मैत्रेण पचति तण्डुलः तण्डुलं पच्यते मैत्रः, मैत्रः पक्ष्यन्ते तण्डुल इत्यादयो न प्रयोगाः।भावना च व्यापारमात्रोपलक्षिका अचेतश्रवण-व्यञ्जन विषयेऽपि श्रुतिपद-व्यक्तिपदप्रयोगाच्च । कर्मवाचकपदाभावेन कृदभिहितेति न्यायस्य तत्रासंभवादित्यलमप्रकृतेन ।
ननु यदि भावनाविशेष्य एव संख्यान्वयस्तदा पच्यते तण्डुल इत्यादौ तण्डुलादिपु कथं तदन्वयः तत्राश्रयतासंबन्धेन भावनाया बाधितत्वेन भावनाविशेष्यत्वाभावादित्यत आह-भावनायाश्चेति । स्वाश्रयत्वेन, स्वाश्रयतासंबन्धेन । कर्मणीति कर्मप्रत्ययस्थल इत्यर्थः । अन्यथा वक्ष्यमाणक्रमेण । तथा चाश्रयतासंबन्धेन बाधेऽपि प्रकारान्तरेण विशेष्यत्वे न बाधकमिति भावः । ननु कदाचिदाश्रयतासंबन्धेन कर्तर्यन्वयः क्वचिच्च कर्मणि अन्यथान्वयः इत्यत्र किं नियामकमत आह-तवेति । तवाख्यातस्य कर्तृ-कर्मबोधकत्वं तुल्यं ममापि आख्यातस्य कर्तर्याश्रयत्वेन भावनाबोधकत्वं कर्मण्यन्यथा तदन्वयबोधकत्वमित्यर्थः । तथाच यथा त्वन्मते परस्मैपदस्य न कर्मबोधकत्वं तथा ममापि परस्मैपदस्य न कर्मणि भावनाया अन्यथान्वयबोधकत्वं किंतु कर्तर्याश्रयत्वेन तद्बोधकत्वं, यथा तव कर्तरि यकोऽसाधुत्वं तथा ममापि कर्तर्याश्रयत्वेन भावनान्वयबोधे तस्यासाधुत्वं, यथा तव एकदा न कर्तृ-कर्मबोधकत्वं तथा ममाप्येकदा न कर्तर्याश्रयत्वेन कर्मणि चान्यथान्वयबोधकत्वमिति भावः ।। ___ क्रमेणासंकीर्णं प्रयोजनमाह-मैत्रेणेति । परस्मैपदेनापि तिपा कर्मणि तण्डुले विषयतया भावनाया अन्वयबोधने तदर्थसंख्याया अपि तत्रैवान्वयात् तव प्रथमा स्यादेकदोभयान्वयबोधकत्वस्याव्युत्पनतया मैत्रे आश्रयतया भावनानन्वयात् तद्वृत्तिसंख्याया अप्यनभिधानात् तत्र तृतीया स्यादिति भावः । तण्डुलमिति । कर्तर्याश्रयतया भावनान्वयबोधेऽपि यकः साधुत्वे पच्यते इत्यात्मनेपदेन कर्तरि मैत्रे तेन संबन्धेन भावनाया अन्वयबोधनात् तदर्थसंख्याया अपि तत्रैवा. न्वयात् तत्र प्रथमा स्यादेकदोभयान्वयबोधकत्वस्याव्युत्पन्नतया तण्डुले भावनाया विषयत्वेनानन्वयात् तद्वत्तिसंख्याया अप्यनभिधानात् तत्र द्वितीया स्यादिति भावः । मैत्र इति, एकदा उभयान्वयबोधस्याप्यभ्युपगमे पक्ष्यत इत्यनेन भावनायाः कर्तर्याश्रयतया कर्मणि चाम्यथान्वयबोधनात्तदुभयटत्तिसंख्याया अप्यभिधानेनोभयत्रैव प्रथमा स्यादिति भावः । ___ आख्यातार्थभावनाविशेष्ये संख्यान्वय इत्यत्र भावनापदार्थ निर्वक्ति-भावना चेति । भावना न प्रयनत्वमात्र विशिष्टा अपि तु व्यापारत्वविशिष्टापीत्यर्थः ।