________________
वादार्थसंग्रहः
[ ४ भाग:
रहादनन्वितैव सङ्ख्या । एकवचनं तु साधुत्वार्थम् । अत एव स्वापस्य द्वित्वबहुत्वेऽप्यौत्सर्गिकमेकवचनमेव । एवं च भावतिङां यथायथं वर्तमानत्वादीष्टसाधनत्वादिकमर्थः, तच्च धात्वर्थ एवान्वेति तथैव प्रत्ययात् । तदबोधकानां तु घञादीनां प्रयोगसाधुत्वमात्रम् ।
1
चैत्रनिष्ठः स्वापः गगननिष्ठा स्थितिरित्यादावाख्यातार्थाविशेषण कान्वयबोधस्यैवानुभवसिद्धत्वात् धात्वर्थो न भावनाविशेष्य इत्येव तत्त्वम् । यद्वा एतदस्वरसेनैवाहअतएवेति । धात्वर्थे भावनाया अनन्वितत्वेन संख्याया अपि तत्रानन्वयादे - वेत्यर्थः । औत्सर्गिकं, द्वित्वायन्वयबोधासंभवस्थल एवानुशिष्टम् । औत्सर्गिकं, प्रथमोपस्थितमित्यपि कश्चित् ।
७०
नन्वेवं भावप्रत्ययानां निरर्थकत्वापत्तिः, चैत्रेण सुप्यते गगनेन स्थीयते इ त्यादौ चैत्रनिष्टस्वापाश्रयत्वं गगननिष्टस्थित्याश्रयत्वमित्यादिबोधस्यानुभवसिद्धत्वादित्यत आह-एवं चेति । यथायथमिति । लटो वर्तमानत्वम्, इष्टसाधनत्वं लिङ इत्यर्थः । वर्तमानत्वादीत्यादिपदादतीतत्व- भविष्यत्वपरिग्रहः । इष्टसाधनत्वादीत्यादिपदात् कृतिसाध्यत्वादिपरिग्रहः । नन्वेवं प्रथमान्तपदाभावात् तस्याप्यनन्वितत्वापत्तिरित्यत आह- तच्चेति । जानातीत्यादौ धात्वर्थेऽपि वर्तमानत्वादीनामन्वयादिष्टसाधनत्वादीनां च धात्वर्थ एव सर्वत्रान्वयादिति भावः । नन्वाख्यातार्थस्य धात्वर्थविशेष्यतानियमात् कथं तद्विशेषणत्वेन तस्यान्वय इत्यत आह - तथैवेति । एषां धात्वर्थविशेष्यत्वेनैव प्रत्ययादित्यर्थः । तथाच भाव - नाया एव धात्वर्थविशेष्यतानियमादिति भावः । तदबोधकानां वर्त्तमानत्वादीष्टसाधनत्वात्रोकानाम् । घञादीनां भावविहितघनादीनाम् । प्रयोगसाधुस्वमात्रमिति, प्रयोगः सुन्दरः पाक इत्यादौ पाकविशेष्यकान्वयवोचः, तत्राकाङ्खात्वमित्यर्थः । मात्रपदात् सार्थकत्वव्यवच्छेदः । धनादीनामित्यादिपदेन भावविहितल्युडनादीनां भावविहितक्तिप्रत्ययस्य च संग्रहः । भावविहितेत्युपादानात् करणादिविहितादीनां कर्मविहितक्तिप्रत्ययस्य च धात्वर्थेऽपि न क्षतिः ।
न च कर्मणि क्तिप्रत्ययो सिद्धः तस्य भावप्रत्ययानुशिष्टत्वात, 'या सृष्टिस्रष्टुराद्या' इत्यभिज्ञानपये सृष्टिपदस्य भावसाधनत्वेऽपि कृदभिहितेति न्यायेन सर्जनकर्मलाभसंभवादिति वाच्यम् । इच्छाविषयेऽपि इष्टिपदप्रयोगस्य दृष्टतया भाव इव कर्मण्यपि तस्य साधुत्वात् । न च तत्र तत्प्रयोगः क्वाप्यदृष्ट इति वा - च्यम् । अग्रये स्विष्टिकृते स्वाहेति स्विष्टिकृडोममन्त्रे तथा दर्शनात्, तस्य शोभनेच्छाविषयकर्त्रे अग्नये इत्यर्थकतया प्रामाणिकैव्र्व्याख्यातत्वात् । न च तत्र स्विटेति निष्ठान्त एव पाठ इति वाच्यम् । बहुष्विकारान्तपाठस्यापि दृष्टत्वात् ।