________________
१३ ग्रन्थः आख्यातशक्तिवादः ।
६९ पदोपस्थाप्यः। तथैवाकाशितत्वात्। चैत्रः पचति पच्यते तण्डुल इत्यादौ कर्तृ-कर्मणी प्रथमान्तपदोपस्थाप्य. तया भावनाविशेष्ये इति तत्रैव संख्यान्वयः। चैत्रेण सुप्यते गगनेन स्थीयते इत्यादौ प्रथमान्तपदाभावात् धात्वर्थस्य भावनायां विशेषणतयैवान्वयस्य व्युसन्नत्वात्,भावनाया बाधितत्वाच, भावनाविशेष्यवि
केचित्तु दृश्यते चैत्रः पचति, गच्छति चैत्रः पचतीत्यादौ एकत्र द्वयमितिवदेकाख्यातार्थमुद्देश्यतावच्छेदकीकृत्यापराख्यातार्थान्वयवारणाय-कर्मत्वाद्यनवरुद्ध इति । आख्यातोपस्थाप्यकर्मत्वाद्यविशिष्टइत्यर्थः, तेन पक्कं भुज्यते, तण्डुलस्य पाको भवतीत्यादौ पाककर्मत्वतण्डुलकर्मत्वादिमति भावनाया अन्वयो नानुपपन्नः । नचैवं धृत्युद्देश्यकत्यागे दर्शनविषयत्वतात्पर्येण प्रयुक्ते धृतिः स्वाहा ज्ञायते इत्यादावन्वयापत्तिः, तत्र प्रथमाया एव चतुर्थ्यर्थे लाक्षणिकतया तदवरुद्धत्वेऽप्याख्यातोपस्थाप्यतदवरुद्धत्वाभावादिति वाच्यम् । इष्टत्वात् । अन्यथा प्रथममतेऽप्यप्रतीकारात् । कृतिसाध्यत्वेष्टसाधनत्वादावकर्मकक्रियायां धात्वर्थे च तदन्वयवारणाय प्रथमान्तपदोपस्थाप्येति । तथाच तद्विशेष्यक-भावनाप्रकारकशाब्दबोधे पूर्वोक्तद्वयमाकाङ्क्षा यद्यदानुपूर्वीज्ञानात् तत्तद्धर्ममुद्देश्यतावच्छेदकीकृत्य तत्तद्धर्मप्रकारकान्वयबोधोऽनुभवसिद्धस्तत्तदानुपूर्वीज्ञानस्य विशिष्य ताहशान्वयबोधे हेतुतया दृश्यते चैत्रः पचतीत्यादौ न तथान्वय इति भाव इत्याहुः ।
ननु प्रथमान्तपदोपस्थाप्यस्य भावनायां विशेषणत्वेनैव कुतो नान्वय इत्यत आह-तथैवेति । विशेप्यत्वेनैवेत्यर्थः, बोधस्येति शेषः । आकासितत्वात, आकाङ्क्षायाः कार्यत्वात् । नन्वेवं भावप्रत्ययस्थले भावनाविशेष्यविरहात् संख्यान्वयो न स्यादित्यत्रष्टापत्तिमाह-चैत्रेणेति । इत्यादाविति, भावनाविशेष्यविरहादनन्वितैव संख्येत्यग्रेतनेनान्वयः । भावनाविशेष्यविरहे हेतुत्रयमाह-प्रथमान्तेत्यादि । ननु उपस्थितभावनाया अनन्वयापत्तिदोषेण भावातिरिक्तस्थल एव प्रथमान्तपदापेक्षा भावस्थले तु धात्वर्थ एव भावनाविशेष्य इत्यत आह-धात्वर्थस्येति । ननु अनायत्या तादृशव्युत्पत्तिरपि भावप्रत्ययस्थले त्यज्यतामत आह-भावनाया इति । चैत्रत्तिस्वापनिरूपिताश्रयत्व-गगननिष्ठस्थिति निरूपिताश्रयत्वादेरेव प्रकृते भावनात्वेन तस्य धात्वर्थस्वाप-स्थित्यादा बाधादित्यर्थः । एतचापाततः, निरूपकत्वसंबन्धेनैव तस्य तत्रान्वयसंभवात् । वस्तुतोऽत्र
१ ख. 'स्थाप्य एव साक्षाङ्कत्वात् । चैं। २ मथुरानाथास्तु चैत्रेणसुप्यते, इत्यतः प्रागिदं वाक्यं व्याचक्षते।