________________
वादार्थसंग्रहः
[४ भागः
लक्षणाज्ञानेन वा यदा तण्डुलकर्मकेत्यादिवोधस्तदापि तण्डुले भावनान्वयापत्तिरतः कर्मत्वाबनवरुद्ध इति, कर्मत्वायविशेषणीभूत इत्यर्थः । तेन पक्वं भुज्यते तण्डुलस्य ‘पाको भवतीत्यादौ पाककर्म-तण्डुलकर्मादिविशेष्यकतदन्वयो नानुपपन्नः । कर्मत्वादिपदं च स्वरूपकथनमविशेषणत्वमात्रं विवक्षितम् । अत एव यदा साक्षात्परम्परासाधारणपञ्चनौकानिरूपितारम्भकताश्रयत्वप्रकारकान्वयबोधे वक्तुरभिप्रायः, तदा एको वृक्षः पञ्च नौका भवतीत्येव प्रयोगः, तत्र नौकायाः प्रथमार्थनिरूपितत्वविशेषणतया तत्र भावनान्वयासंभवेनाख्यातार्थसंख्यान्वयासंभवात् । यदा च पञ्चनौकासु रक्षनिरूपितोत्पत्त्याश्रयत्वप्रकारकान्वयबोधे वक्तुरभिप्रायः तदा तु भवन्तीत्येव प्रयोगः । प्रथमस्य साक्षात्परंपरासाधारणत्वस्य उपादानात् साक्षादृक्षारम्भकमहावयवानां नाशेऽपि न क्षतिः, द्वितीयस्य तस्योपादानात्साक्षात्परंपरया वृक्षारम्भकतान्यानामेव खण्डावयविनां साक्षान्नौकारम्भकत्वेऽपि न क्षतिः । (१)
केचित्तु एकवृक्षपदं परंपरैकवृक्षारम्भकारभ्यद्रव्यपरं, धातुपदं च साक्षादार. म्भकतापरमेव । यद्वा नौकापदं साक्षात् तदारम्भकपरं, धात्वर्थश्चाभेद इत्याहुः । नौकायाः संयुक्तायाः संयुक्तावयविप्रचयरूपत्वे तु नौकापदं तादृशविलक्षणसंयो. गपरमित्यमलप्रकृतेन । __न चैवं भूतले घटो नास्तीत्यादौ घटस्याभावांशे विशेषणत्वादाख्यातार्थाश्र. यत्वस्याभाव एवान्वयात् घटे संख्यान्वयोऽपि न स्यादिति वाच्यम् । तादृशम्युत्पत्तिवैचित्र्येण तत्र भावनाविशेष्यप्रतियोगिन्येत्र संख्यान्वयादतएवानुपपत्त्या विशेषणतासंबन्धेन भूतलवृत्तित्वाभावस्य प्रतियोगितासंबन्धेन भूतलनिष्ठाभावस्य वा घटे विशेषणतयैवान्वयाभ्युपगमाचेति भावः । धात्वर्थकृतिसाध्यत्वेटसाधनत्व-वर्तमानत्वादीनामपि कर्मत्वाचनवरुद्धतया तत्र तदन्वयवारणाय प्रथमान्तपदोपस्थाप्येति । तथाच तद्विशेष्यक-भावनाप्रकारकशाब्दबोधे तदुपस्था. पकपदे प्रथमाविभक्तिसमभिव्याहारो धातूत्तरमाख्यातं चाकाङ्क्षा । तस्याश्च तन्मुख्यविशेष्यक-भावनाप्रकारकशाब्दत्वं कार्यतावच्छेदकम् । अतः प्रथमार्थकर्मत्वादिविशेषणीभूते तण्डुलादौ न तदन्वयः । द्विविधविषयताशालिवोपश्च तात्पर्यसत्वे इष्यत एव । अत एवायमेव दृश्यत इत्यादौ एवकारार्थान्यविशेषणत्वेन उपस्थितस्य भावनाविशेष्यत्वेनान्वयो नानुपपन्नः । ननु तथापि चैत्रः पचतः चैत्रः पचन्तीत्यादौ चैत्रादिषु कथं न भावनान्वयः । न चाख्यात-प्रथमयोर्वचनसाम्यस्यापि तन्त्रत्वमिति वाच्यम् । चैत्रो मैत्रश्च गच्छत इत्यादौ व्यभिचारादिति । मैवम् । आख्यातैकवचनोपस्थाप्यस्य यत्नादेः प्रथमैकवचनान्तोपस्थाप्य एवान्वयः, तद्विवचनोपस्थाप्यस्य भावनादेः क्वचित् द्विवचनान्तोपस्याप्ये क्वचिदेकवचनान्तद्वयोपस्थाप्येऽपीत्यभ्युपगमात् । एवमन्यत्रापि शब्दैक्यस्यानुपा. देयत्वादिति भावः।