________________
१३ ग्रन्थः] आख्यातशक्तिवादः। क्षया स्वबोधकपदप्रतिपाद्यार्थान्तरान्वयित्वमिति वैयाकरणमतमेव युक्तं लाघवादिति चेत् । न । कर्तृत्वस्य कृतिमत्त्वरूपस्य हि शक्यतावच्छेदकत्वेऽनन्तकृतीन शक्यतावच्छेदकत्वापत्तिर्धर्मिणोऽन्यलभ्यस्य शक्तत्वापत्तिश्चेति महागौरवं स्यात् । न च स्वाश्रयसमवायित्वादिलक्षणपरंपरासंबन्धेन कृतित्वमेवाख्यातशक्यतावच्छेदकं वैयाकरणमतेऽपीति न शक्यतावच्छेकनानात्वगौरवमिति वाच्यम् । समवायेन कृतित्वस्य शक्यतावच्छेदकत्वापेक्षया निरुक्तपरंपरासंबन्धेन कृतित्वस्य तथात्वे गौरवस्यापरिहारात् । उक्तसमानपदोपात्तान्वयित्वस्य नियामकत्वे तु न गौरवं, वैयाकरणस्याख्यातजन्पसंख्याप्रकारकशाब्दत्वावच्छिन्नं प्रति आख्यातजन्यकर्बुपस्थितित्वेन हेतुतावदस्माकमपि तादृशशाब्दत्वावच्छिन्नं प्रति प्रथमान्तपदजन्योपस्थितित्वेन हेतुत्वकल्पनादिति भावः
ननु चैत्रस्तण्डुलं पचतीत्यादौ भावनान्वयस्तडुलादावपि स्यात् तथाच कर्तृकमसाधारण्येनेत्यादिवायकापरिहार इत्यत आह-भावनायाश्चेति । प्रथमान्तपदानुपस्थाप्यस्यापि धात्वर्थस्य भावनायां विशेषणत्वेनान्वयादाह-विशेष्यत्वेनेति । ननु कर्मत्वादेविशेषणतयोपस्थितं चैत्रस्तण्डुलं पचतीत्यादौ तण्डुलादिकमेव भावनाविशेष्यतया अन्वितमिति किं नाङ्गीक्रियते इत्यस्योत्तरदानायाहकर्मत्वादीति । आदिपदेन करणत्व-संप्रदानत्वापादानत्व-संबन्धाधिकरणत्वादीनां सुवर्थानां परिग्रहः । तथाच तेषां कर्मत्वादिविशेषणतया उपस्थितत्वेन भावनाया विशेष्यत्वेनान्वये निराकांक्षत्वमित्युत्तरमभिप्रेतम् । ननु यदि कर्मत्वादिविशेषणतयोपस्थितत्वमेव भावनाविशेष्यत्वेनान्वये निराकासताबीजं तदा धात्वर्थस्य भावनाविशेष्यतयान्वये निराकाङ्कता न स्यात्तस्य कर्मत्व-करणत्वादिविशेषणतथानुपस्थितत्वादित्यत आह-प्रथमान्तति । तथाच कर्मत्वादिवि. शेषणतयोपस्थिते धात्वर्थे च भावनाया विशेष्यत्वेनान्वयबोधस्याजायमानतया तद्वारणाय भावनाया विशेष्यत्वेनान्वयबोधं प्रति प्रथमान्तपदजन्योपस्थितित्वेन हेतुता कल्प्यते इत्यर्थः । ननु विशेषणतयोपस्थित एव कथमाकाका नास्तीत्यत आह-तथैवेति । कर्मत्वादिविशेषणतयानुपस्थितेन प्रथमान्तपदोपस्थाप्येनैव विशेष्यत्वेन भावनान्वयस्य साकाङ्कत्वादित्यर्थः ।
अत्रायं भावः-प्रथमान्तोपस्थाप्यस्य विशेष्यतयैवान्वयनियमेन विशेषणसाकाङ्कता, भावानायाश्च विशेषणत्वेन विशेष्यसाकाङ्क्षतेति भनाश्वदग्धरथन्यायेन प्रथमान्तोपस्थाप्यं विशेष्यीकृत्य भावनायास्तद्विशेषणत्वेनान्वयः। न च प्रथमान्तोपस्थाप्यस्य भावनायां विशेषणतया अन्वयोऽस्तु चैत्रः पचतीत्यादौ चैत्रीया पाकानुकूला कृतिरित्यन्वयबोधसंभवादिति वाच्यम् । सुवातिरिक्तविभक्त्यर्थसाक्षाद्विशेषणतया प्रातिपदिकार्थे शाब्दबोधविषयत्वानङ्गीकारादिति । एतेन प्रथमान्तपदोपस्थाप्यत्वमेव भावनाया विशेष्यत्वेनान्वये नियामकमस्तु ताबतैवानतिप्रसङ्गादिति किं कर्मत्वाचनवरुद्धत्वस्य तनियामकत्वकल्पनयेत्यपास्तम् ।