________________
३ ग्रन्थः] आख्यातशक्तिवादः !
६५ यत्त्वाख्यातस्यैकत्वाद्यशक्तत्वे बह्वः पतिः एकः पचन्तीत्यादिवानन्यस्यापि ग्यत्वं स्यात् । आख्यातोपस्थापितभावनामात्रस्यान्वयसंभवात् । तस्मादेकत्वादिख्याभावनयोरेकत्रोच्चारणान्तर्भावेन शक्तिराख्यातस्य पुष्पवन्तादिपदवदिति यख्यान्वयिन्येव भाक्नान्वयात्तत्रायोग्यत्वम् । न चैवमेकस्मिन् दाराः पश्यन्ति पापो विद्यन्ते इत्यादौ संख्याया अप्यन्वयो न स्यादिति वाच्यम् । अत एव त्राप्यवयवादिवृत्तेस्तद्गुणादिवृत्तेर्वा बहुल्वस्य परंपरयाऽपि स्वीकारात् । न चवमवयवादिबहुत्वमादाय एको गच्छन्तीत्यादिप्रयोगापत्तिः । एकत्वधर्मितापच्छेदककबहुत्वप्रकारकप्रत्ययेच्छायाः कारणत्वोपगमादिति तन्न । तथाऽपि मनुष्यो गच्छन्तीत्यादि वाक्यादेकत्र द्वयमिति न्यायेन बहुत्वैकत्वयोरन्वयसंनवात् तथा प्रयोगापत्तिरतः शब्दासाधुत्वमेवोपेथमिति बहवो गच्छति इत्याशवपि तथा । किं च जानातीत्यादावाश्रयत्वलाक्षणिकाख्याते का गतिः ? स्वार्थसंख्यान्वयिन्येव भावनान्वव इति नियम एवैकत्रोचारणेत्यादेरर्थ इति चेत् न । दौ गच्छत इत्यादौ सर्वथैवासंभवात् । उद्देश्यतावच्छेदकस्य विधेयत्वासंभवेन त्र संख्याया अनन्वयात् ।
यदप्युपकुंभं दृश्यते दृश्येते दृश्यन्ते वारि दृश्यते दृश्यन्ते इत्यादावेकत्वादेवाचितिबादिसमभिव्याहारेणैकत्वादिवाचितुरः कल्पयितुं शक्यत्वात्तिबादेरेफत्ववाचितासिद्धिरिति । तदपि न । द्वित्यादिवशकतया गृहीततिवादेः समभव्याहारेण तत्कल्पनाभावादेकत्ववाचितया गृहीतस्वादिसमभिव्याहारेण कल्पनाच्चैकत्ववाचितया गृहीततिबादीति वाच्यम् । तथा च कुतस्तद्वाचितासिद्धिरिति द्वत्वादिशक्ततया गृहीतान्यतिवादिसमभिव्याहारातत्कल्पनमित्ययाहुः । (?) ___ यत्तु पचतीत्यादौ वारि दृश्यत इत्यादौ च तिबादेरेकत्वबोधेऽपि न तत्र शक्तिः । अन्यथा पचतीतिवाक्यात्पाककर्ता एकः पाककर्ता चैत्र एक इति बोधे कर्तृचैत्रादेरपि आख्यातशक्यत्वापत्तेः । अथ चैत्रः पचतीति वाक्यश्रवणे कर्तुश्चैत्रादेश्चान्यतो बोधावधारणेनाश्रयांशे चैत्रे च शक्त्यभावनिर्णयात् भ्रमत्वं विशेषादर्शनकालीनकल्पनाया इत्युच्यते तर्हि प्रकृतेऽपि तुल्यं, चैत्रः पचति चैत्रो दृष्ट इत्यादिविशेष्यसमभिव्याहृतविभक्तिभ्यामेवैकत्वबोधसंभवात् , अनुशासनं त्वेकत्वे प्रतिपाद्ये एकवचनमित्येवं रूपं न तिवादेरेकत्वशक्तिग्राहकं समभिव्याहृतैकवचनान्तविशेष्यपदादेवैकत्वप्रतीतिसंभवात् , शब्दिकरणादेरिव कतरि । द्विवचनस्य तु द्वित्वे शक्तिरनुशासनबलादेव, चैत्रोमैत्रश्चेत्यादौ तदलाभात् क्यजादेरिवात्मेच्छादाविति । तन्न । प्रागुक्तयुक्तरेकत्वशक्तिसिद्धेः।