SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ६६ वादार्थसंग्रहः [४ भागः कर्तरि तु न शक्तिर्गौरवात् । न वा चैत्रादावनुशासनानुग्रहाभावादिति दिक् ॥ कृतेति । तदुत्तरसुप एव संख्योपस्थितिसंभवात् कृतो न संख्यायां शक्तिरिति चैत्रो ग्रामं गत इत्यादावपि तृतीया चैत्रेण ग्रामो गत इत्यादावपि द्वितीया स्यादिति भावः । नन्वाख्याते न केर्तृसंख्याभिधानानभिधानाभ्यां नियमो भविष्यतीत्यत आह-किं चेति । न नियमः । कर्तुरेव काख्यातेन कर्मण एव कर्माख्यातेन संख्याभिधीयत इति नियमो न, संभवतीति शेषः । असंभवमेवोपपादयति--पदार्थतेति। एकत्वत्वाद्यवच्छिन्नस्येत्यर्थः । कर्तृकर्मेति। तथा च कर्तृकर्मविहिताभ्यामप्याख्याताभ्यां कदाचित्कर्मकर्तृगतसंख्याबोधसंभवाचत्रेण पचति तण्डुलश्चैत्र: पच्यते तण्डुलमित्यपि स्यादिति भावः । ___ ननु कत्रैकत्वत्वादिना शक्यत्वयोग्यतावशादेव न साधारण्यमत आह---क.. केति । आदिपदात्कमैकत्वत्वपरिग्रहः । अभिधेयत्वमिति विशेषणतयेति शेषः । ननु कृतिमदेकत्वत्वमेव शक्यतावच्छेदकम् । कृतिमत्त्वं च सामानाधिकरण्येन । सामानाधिकरण्यं च कर्तृकमैकत्वयोः कृतिसमवायिनि कृतिविशेष्ये च समवेतत्वमिति कर्नादेर्नाभिधेयत्ववार्ताऽपीत्यत आह-शक्ताविति । ममैकवचनत्वादिनैकत्वादी शक्तित्रयमाख्यातत्वेन कर्तर्यात्मनेपदत्वेन कर्मणीति शक्तिपञ्चकम् । तव कर्नादिविहितैकत्वत्वादिना च कर्त्रकत्वादी शक्तिषटं सुबेकवचनत्वादिना चैकत्वादौ शक्तित्रयम् , आख्यातत्वेन कृतावित्येका , आत्मनेपदस्थले च तस्या विशेष्यान्वय इति व्युत्पत्त्यन्तरं, फलविशेष्यस्य कर्मत्वे तत्रापि शक्त्यन्तरमिति दशैकादश वा शक्तय इति शक्तौ गौरवम् । ममैकवचनत्वादिना शक्तत्वं तव कर्तरि विहितैकवचनत्वं शक्ततावच्छेदकम् । तत्तद्रूपेणैवेतिमते तुल्यत्वाच्छक्यतेत्युक्तम् । अत्र चैत्रं ग्रामं नयति मैत्र इत्यादौ कर्मणोऽपि कर्तृ. त्वात्तत्तक्रियाकāकत्वत्वादिना शक्यत्वस्य वाच्यत्वादतिगौरवं शक्यतावच्छेदके, शक्त्यानन्त्यं च बोध्यम् । ननु तवैव कथं संख्यान्वयनियम: ? कथं वा न गौरवमत आह—तस्मादिति । आख्यातत्वेनेति । आत्मनेपदस्यापि कर्तरि प्रयोगादिति भावः । आत्मनेपदत्वेनेति । परस्मैपदस्य कुत्रापि कर्मण्यप्रयोगादिति भावः । एकवचनत्वादेर्दुर्वचत्वादाह-तत्तद्रूपेणेति । एवमाख्यातत्वादेरपि दुर्वचत्वे तिप्त्वा दिकं तथेति बोध्यम् । एकपदेति । तथा च तत्तदाख्यातजन्यसंख्याप्रकारकबोधे तत्तदाख्यातजन्यकर्तृकर्मोपस्थितेः कारणत्वान्नान्यत्र संख्यान्वय इति भावः । अत्र चैत्रश्चैत्रं जानातीत्यादौ कर्मणो[ऽभिधायि] विषयत्वरूपकर्मत्वेन नाभिधानमाश्रयत्वरूपभाक्तकर्तृत्वेनैव तदभिधानादिति बोध्यम् ।
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy