________________
६४ वादार्थसंग्रहः
[४ भागः नन्वेवमपि द्वित्वादिषु आख्यातद्विवचनादेः शक्तिः कल्प्यतां नत्वेकवचनाख्यातस्यैकत्वे इत्यत आह-लाघवादिति । सुत्वाम्त्वादिना शक्तिकल्पने च नानाशक्तिः स्यात्सुबेकवचनत्वेन तत्त्वे तु गौरवादेकवचनत्वेनैव तत्त्वमित्याख्यातैकवचनस्याप्येकत्वे शक्तिरागतेति भावः । नन्वत्र किमेकवचनत्वं नैकत्वशक्तत्वमात्माश्रयप्रसङ्गात् । न च संकेतविशेषसंबन्धेन एकवचनपदवत्वं तत् । तद्रूपेणाशानदशायां सुत्वादिना ज्ञानादेकत्वादिप्रत्ययः शक्ततावच्छेदकभ्रमादे. वेति वाच्यम् । एकवचनपदस्यानन्त्याच्छक्त्यानन्त्यप्रसङ्गात् । शक्ततावच्छेदकभेदात् । किं चैकवचनत्वेनाज्ञानेऽपि सुत्वादिना ज्ञानाद्भवेदेकत्वादिधीः । सुत्वादिनाऽज्ञाने चैकवचनत्वादिना ज्ञानेऽपि नेति सुत्वादिकमेवान्वयव्यतिरेकाभ्यां शक्ततावच्छेदकं (एक) वचनादिपरिभाषाविशेषविषयत्वादिज्ञानं च एकत्वशक्तत्वज्ञापकतयोपयुज्यते । तदवच्छेदेन व्याकरणादेकत्वादिव्युत्पत्तेः । अत एव स्वादेरेकवचनत्वेनाज्ञानदशायां क्वचिन्नैकत्वादिधीद्विवचनत्वादिना ज्ञाने च द्वित्वादिशक्तत्वभ्रमादित्वादिधीः । संज्ञाकरणस्य चैतदपि फलं यत्तत्संज्ञया बहूनां निर्देश: । प्रत्येकं निर्देशे ग्रन्थबाहुल्यापत्तेः। __ अत्र वदन्ति-सुत्वादिकमेव शक्ततावच्छेदकं तथाऽपि तिप्त्वादिकं तथा पचतीत्यतः पाककर्ता एक इति बोधात् । न च कर्तरि लक्षणावश्यकत्वादेकत्वविशिष्टकर्तर्येव साऽस्तु विशिष्टे लक्षणाप्रतिसंधानविरहेऽपि तथा बोधात्, वै. याकरणानां शक्तिभ्रमेण बोधाच्च । न चैकत्वांशेऽपि शक्तिभ्रमो बाधकाभावात् । न चैवं कर्तर्यपि शक्तिरस्तु तत्र कदाचित्कृतिप्रकारकबोधस्याप्यनुभवसिद्धत्वात् , कृतौ लाघवात् शक्तौ कर्तुः शक्तिभ्रमाल्लक्षणातश्च लाभसंभवस्यैव बाधकत्वात् । न चैवं सुपि कृसैकत्वादिशक्तेस्तिङि भ्रमादेकत्वादिबोधसंभवान्न तिबादेः शक्तिः । घटपदे शक्तौ कलशपदे तदभावप्रसङ्गात् , स्वरसतस्तदर्थप्रतीतिस्तुल्यैव । किं च विनिगमनाविरहादेव तिबादेः शक्तिसिद्धेः सुप एव फलत्वा(तत्त्वा)रोपाच्छाब्दबोधस्य सुवचत्वात्। न च तिङां बाहुल्यं, तथाऽपि प्रत्येक विनिगमकाभावात् । न च सुपा सार्वत्रिकत्वमेव विनिगमकम् । पचतीत्यत्रैव तदभावात् , वारि दृश्यत इत्यत्र लुप्तविभक्तिप्रतिसन्धानं विनाऽपि तिडैकत्वप्रत्ययाच्च । तत्र लुप्तस्य प्रतिसन्धानं कल्प्यत इति चेत् चैत्रेण दृष्टो घट इत्यत्राप्यस्तीतितिप्रतिसन्धानस्य संभवात् । न चैवं गङ्गापदस्यापि तीरे शक्तिरस्तु । तत्र तद्ग्रहे प्रमात्वे बाधकाभावाद्विनिगमनाविरहाच्चेति वाच्यम् । तत्र विरुद्धकोशादेरेव बाधकत्वात् । न चेह तथा, द्वयेकयोर्द्विवचनैकवचन इति सामान्यत एवानुशासनसत्त्वात्।