________________
१३ ग्रन्थः]
आख्यातशक्तिवादः ।
( जय० ) वैयाकरणमतमुस्थापयति-कर्तृकर्मणी इति । लकार आख्यातम् । सामानाधिकरण्येति । आख्यातस्य कर्तृकर्मशक्यत्व एव नामाख्यातयोभिन्नप्रवृत्तिनिमित्तयोरेकर्मिबोधकत्वरूपं सामानाधिकरण्यमुपपद्यत इति भावः । ननु कृत्यभिधानानभिधानाभ्यामेव कत्रभिधानानभिधानयोः कर्माभिधानानभिधानयोश्च नियमो भविष्यति तत्राह-कृत्यभिधानेति । कर्मप्रत्ययेनापि कृतेरभिधानमिति प्राचीनमतेनेदं, स्वमते तत्र तृतीयाया एव कृत्यभिधायकत्वं बोध्यम्। _ नैयायिकमतं दूषयति-कर्तृकर्मसंख्येति, इत्यपि नास्तीत्यन्तेन। नियम इति । आख्यातेन कर्तृकर्मसंख्याया अभिधाने प्रथमाऽनभिधाने तृतीयाद्वितीये इति नियम इत्यर्थः । तथा चाभिहिते कर्मणीत्याद्यनुशासनेऽभिहितसंख्यान्वयित्वमेवाभिहितत्वमिति भावः। न तदभिधायकत्वं, संख्याभिधायकत्वम्। तथा च चैत्रः पचतीत्यादौ तृतीया स्यादिति भावः । तादृशसुपं द्वित्त्वादिबोधकसुपम् । न चात्रैक(त्व)धर्मितावच्छेदककद्वित्वधीः, कुतः १ एकत्वस्याविवक्षितत्वात् । विवक्षितत्वेऽप्येकत्र द्वयमितिरीत्या बोध इत्यन्ये । एकैकत्वमात्रावच्छेदेनैव न द्वित्वधीरिति ।
नन्वत्रास्तु सुबेकवचनस्य द्वित्वे लक्षणा, न च सुब्विभक्तौ लक्षणासत्वे धृतिः स्वाहेत्यादौ प्रथमादेश्चतुर्थ्याद्यर्थे लक्षणया प्रयोगसंभवाद्वयत्ययानुशासनं व्यर्थ स्यादिति न तत्र लक्षणेति वाच्यम् । तद्वैयर्थ्यापत्त्या संख्याभिन एव सुब्विभक्तेर्लक्षणानुपगमात् । एकस्यां दारा इत्यादिप्रयोगात् । वस्तुतो व्यत्ययानुशासनं न प्रथमादेश्चतुर्थ्यादिस्मारकत्वसंबन्धबोधकं तदर्थशक्तिग्राहक वा श्रूयमाणप्रथमादितो लक्षणया चतुर्थ्याद्यर्थबोधसंभवे पदान्तरस्मृतेः शक्त्यन्तरस्य वा कल्पनाया अन्याय्यत्वात् । किं तु यस्या विभक्तरर्थे या विभक्तिर्विधीयते तद्विभक्त्यर्थे तदन्यविभक्तेर्लक्षणयाऽसाधुत्वमित्येतत्परतया सार्थकम् । अत एव घटं जानातीत्यादौ द्वितीयादेविषयित्वादौ लक्षणा निष्प्रत्यूहेति चेत्तथा सुब्बिभक्तेः प्रकृत्यर्थमात्रगतसंख्याबोधकत्वनियमात् चैत्रोमैत्रश्च गच्छत इत्यादितश्चैत्रद्वयमैत्रद्वयबोधापत्तेः । न च चैत्रमैत्रपदे चैत्रमैत्रान्यतरपरे संभेदे नान्यतरवैयर्यमिति वाच्यम् । बोधवैषम्यात् । वस्तुत एकस्मिन्नेकवचनमित्यादिसमाख्याद्यनुशासनबलादेकत्वादौ शक्तिसिद्धेयोरित्याद्यनुशासनं एकवचनादावसाधुत्वज्ञापकमिति नात्र लक्षणासंभवः । एतेन चैत्रमैत्रपदे शक्त्या चैत्रमैत्रयोर्लक्षणया मैत्रचैत्रयोर्बोधके इति न बोधवैषम्यमिति दिक् । १ इदं वाक्यचन्द्रिकायामस्तीति भादर्शपुस्तके टिप्पणी ।